________________
१३२ ]
यथा
यथा
यथा
वृत्तमौक्तिक - द्वितीयखण्ड
मृगगणदाह के वननदीसरः शोषके,
ग्रसति तरून् विलोल निजहेतिजिह्वाशतैः । भयभरखिन्न 'डिम्भवदनं निरीक्ष्याशु यः,
वदनं पपौस दिशतान् मनोवाञ्छितम् ।। ३६० ।।
इति गरुडरुतम् १७७.
१७८. श्रथं चकिता
भिसं कर्ण हारौ कुण्डलमबले !,
धारय कुसुमं पुष्पद्वन्द्वं कामिनि ! तरले ! ।
रूपवलयकं पादप्रान्ते स्यादिह चकिता,
षड्सु च विरतिः काव्यव्यक्तिः स्मरले भविता ।। ३६१ ।।
[ १० ३६० - ३६४
कामिनि ! सुघने वृन्दारण्ये नन्दय नयनं,
भामिनि ! भवने भव्याकारे भावय शयनम् । शीतलपवने धन्ये पुण्ये खञ्जननयने,
त्वामह कलये तल्पेऽल्पे कुञ्जरगमने ।। ३९२ ॥
इति चकिता १७८.
१७६. अथ गजतुरगविलसितम्
धार रौहिणेयमथ पतगवरपति,
कारय वह्निमेय-नगणवरगुरुयतिम् ।
षोडशवर्णधारि-गजतुरगविलसितं
भामिनि ! भावयेदमपि मुनियतिरचितम् ।। ३९३ ।।
सुन्दरि ! नन्दनन्दनमिह धरणिवलये,
मानिनि ! मानदानमपि न हि न हि कलये ।
भाव भावनीयगुणगणपरिकलितं,
चेतसि चिन्तयाशु सखि ! मुनिजनवलितम् ।। ३६४॥ इति गजतुरगविलसितम् १७६.
क्वचिद् इदमेव ऋषभगजविलसितम् * इति नामान्तरेणोक्तम् ।
१. व भिन्न । २. ख. सरले । ३. ख. मानगोचरसुमिह न कलये । * टिप्पणी - १ वृत्तरत्नाकरः, अ० ३, का० ६१, छन्दोमञ्जरी, द्वि० स्त० का० १४६