________________
५० ३६५ - ३७० ]
१. वृत्तनिरूपण-प्रकरण
[ १२७
यथा
यथा
हृदि भावये विमलकमलनयनान्तं ,
जनपावनं नवजलधररुचिकान्तम् । व्रजनायिकाहृदयमधिजनितकामं ,
वनमालिनं सकलसुरकुलललामम् ॥ ३६५ ।।
इति एला १६६.
१६७. प्रथ प्रिया कुरु नगणयुगं धेहि तं भगणं ततः ,
प्रतिपदविरतौ भासते रगणोऽन्ततः । मुनिरचितयति'नागराजफणिप्रिया ,
सकलतनुभृतां मानसे लसति प्रिया ।। ३६६ ।। इदमेव हि यदि वसुयति रलिरिति संज्ञां तदाप्नोति । लक्षणवाक्ये मुनियतिरुदिता वसुकृतयतिश्च यथा ॥ ३६७ ।। कलय दशमुखारि हताखिलदानवं ,
मुनिजनमखपालमृषा भुवि मानवम् । सरसिजनयनान्तं शरासनभञ्जकं ,
कपिकुलवरराज्ञः सदा प्रियसंजकम् ।। ३६८ ।।
इति प्रिया १६७.
१६८. अथ उत्सवः पक्षिराज-नगणी भगण-द्वितयं ततः
कारयाशु पदशेषकृतो रगणो मतः । उत्सवः फणिनागकृतः सखि ! भासते ,
पङ क्तिजाक्षरविरामयुतः कविमानसे ॥ ३६६ ॥ बंभ्रमीति हृदयं जलधौ तरणिर्यथा ,
दह्यते सखि ! तनुर्नलिनीव हिमागमे । वायुलोलकदलीव तनुर्मम वेपते ,
चन्दनं शुचि सरोवदिदं परिशुष्यति ॥ ३७० ॥
इति उत्सवः १६६.
यथा
१. यतिः
।