________________
छन्दःशेखरः
[शीर्षकोत्साहादिःनव विषमयोः स्युः । समयोस्तु सप्तश रत्नावली ॥ ९३ ॥ चरणव्यत्यये कुसुमावलीति । षतचपतत्रयैः ॥ ९४ ॥ एवं त्रिविधे नवमात्रे क्रमे । षोडश विभेदाः ॥ ९५ ॥
एवं चतुःपञ्चाशद्वस्तुकान्याहुः ।। दशौजयोः कलाः कार्या युजोरेकादशाधिकाः ।
यावत्सप्तदशात्रापि प्राग्वद्भेदाश्चतुर्दश ॥ ९६ ॥ भ्रूवक्रणकमयुजि । दश युजि त्वेकादश ॥ ९७ ॥ चरणविपर्यासतः । विद्युल्लता मता ॥ ९८ ॥ मुक्ताफलमाला । अयुजि दश समे द्वादश ॥ ९९ ॥ अस्याः पादोरक्रमेण । पञ्चाननललिता ॥ १० ॥ कोकिलावली स्याद् । अयुजि दश समे त्रयोदश ॥ १०१ ॥ मरकतमाला भण्यते । चलन(रण)विपर्ययतः ॥ १०२ ॥ मधुकरवृन्दं भण । विषमे दश समे चतुर्दश ॥ १०३ ॥ भवेदभिनववसन्तश्रीः । चरणविपर्ययतः ॥ १०४ ॥ स्यास्केतककुसुमं । विषमयोर्दश पञ्चदश युजोः ॥ १०५ ॥ पदव्यत्ययेन मनोहरं । विद्वद्भिर्भणितम् ॥ १०६ ॥ नवविद्युन्माला । विषमे दश युजि षोडश मात्राः ॥ १०७ ॥ भाक्षिप्तिका ध्रुवा । गीतिः स्यात् पादविपर्ययेण ॥ १०८॥ त्रिवलीतरङ्गकं । विषमे दश मात्रा युजि सप्तदश ॥ १०९ ॥ विपर्यये सति किंनरलीलेति । षप(च)द्विपद्विप(च)दैः ॥ ११० ॥ त्रिविधदशकले पादे भवेयुः ॥ प्रभेदाश्चतुर्दश ॥ १११॥
एकादशौजयोर्मात्रा द्वादशाद्यास्तु युग्मयोः ।
आसप्तदशका दा द्वादशांहिविपर्ययात् ॥ ११२॥ योकादशौजे । द्वादश युज्यरविन्दम् ॥ ११३॥ मकरध्वजहासा(सः) । चरणव्यत्यये स्यात् ॥ ११४॥ अयुजि शिवास्त्रयोदश । युजि विभ्रमविलसितमुखम् ॥ ११५॥ पादव्यत्ययतो ब्रूहि । कुसुमाकुलमधुकरम् ॥ ११६ ॥ [भ]युजि शिवकला युजि वा(च) । मनवो नवपुष्पर्धेयेति ॥ ११७ ॥ अस्याश्चरणविपर्ययेण । भ्रमरविलासमुक्तम् ॥ ११८॥
युजि पञ्चदश विषमे । शिवा(वाः) किंनरमधुरविलासः ॥ ११९॥ १Ms. has समयोस्त्रयोदशदश. २ Ms. has गीतिस्मिन्. ३ Ms. has. कुसुमम्कुल० ४. Ms. has नवपुष्पान्विकेति.