SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 52 छन्दोदर्शनम आत्मशक्तिभिः देवतात्मभि: सधीभिः बुद्धिशक्तिसहिताभिः सह सम्भ्राजमानः सः मरुतां पिता रुद्रः मध्यमलोकाधिपतिः विश्वस्यैव प्रभवतीति || COMMENTARY-SUMMARY TRANSLATION He is Åtmā, the inner light which pervades everywhere. Within all and everybody, his own forces, Rudrāņis, are manifested as ten prāṇas equal to one another, accompanied by gods and the projection of the intellect, with which he shines. He is father of Maruts, Rudra the lord of mid-air. पञ्चभी ऋक्। यः प्राणेषु चेतयिता चेततेऽन्तदिक्षु दशसु प्रति रौति चित्तिभिः ॥ मरुतां स पिता रुद्रो मध्यम स्तत् परमं ज्योतिर्विश्व॑स्य दर्शयत् ॥५॥ पदपाठः- यः। प्राणेषु। चेतयिता । चेतते । अन्तरिति । दिक्षु । दशऽसु । प्रति । रौति । चित्तिऽभिः ।। मरुतौ । सः। पिता । रुद्रः । मध्यमः । तत् । परमं । ज्योतिः। विश्वस्य । दर्शयत् ॥ He who, as an inspirer, inspires the Pränas within, and roars in all the ten directions with powers of his knowledge, is the father of Maruts, Rudra, the dweller in mid-air. He is the light which lights up all and everything in the universe. अन्वयभाष्यम्। यः सर्वेषां अन्त: विद्यमानेषु दशसु प्राणेषु चेतयिता प्रेरयिता सन् स्वयं चेतते चेतनात्मरूपेण सञ्चेष्टते, तथा बहिरपि दशसु दिक्षु सन्तताभिः चित्तिभिः चेतनाशक्तिभिः रौति प्रतिध्वनिरूपेण शब्दायते, स्थूल-सूक्ष्म-स्वरनादादिना नदतीति यावत्, तदेव रुद्रस्य प्रधानं परं रुद्रत्वलक्षणमिति भावः, सः परोक्षसिद्धः मध्यमलोकाधिपतिः विश्वाध्यक्षः, तदेव विश्वस्यापि जगतः दर्शयत् सर्वावभासकं परमं ज्योतिरेव भवितुमर्हति तत्परञ्ज्योतिःस्वरूप एव भगवान् रुद्रः इति ||
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy