SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ॥ई ॐ श्रीः ॥ छन्दोदर्शनसर्वानुक्रमणिकासूत्रम् । अथास्मिन् वै "छन्दोदर्शननिगमे " समस्मिन्, ऋक्-सूक्तानुवाकानां यथादर्शनम्, यथाऽनुश्रवणम् , यथासङ्ख्यम्, आषय-दैवत-छन्दसामनुक्रमणीयम्, प्रत्यक्ष-परोक्षापरोक्षसत्वैः, साधिभूत-साधिदेवत-साध्यात्मकानां तत्त्वानाम् , क्वचिदेव वा अधियज्ञस्य सहसत्त्वेन समार्थानां सद्विधानानां, संविदे भावायोत कृतये सदुपास्त्यै, यशायैव धर्माय योगाय तपसे श्रेयसे प्रेयसे भूयसे बलाय निःश्रेयसाय समार्थाय परमस्मै सदाय वितन्यते भूयस्तत् प्रति. क्रमणीयम् ॥ नातिक्रमणीयं छन्दस एवानुशासनम्, देवतानामनुप्रतिशंसनं समम् ॥ समग्रं तदेतदेकाषयं “देवराताम्," मित्रादीनि-भववृत्तान्तानि तदैवतानि द्विचत्वारिंशद् आश्रुतानि, चत्वार्येव च्छन्दासिं, गायत्रानुष्टुभत्रैष्टुभजागतानि तानि समिष्टानि भवन्ति, अष्टावेवानुवाकाः, पञ्चाशदेव सूक्तानि, अष्टाचत्वारिंशदुत्तरं चतुःशतमेव ऋचः परिसङ्ख्यया ॥ __ " असौ मित्रः" तृचं सावित्रं गायत्रम् देवरातो वैश्वामित्रः, मित्र आत्मा सवितेति वा प्रत्यूचं देवता, तृतीयस्यां त्रिपादसौसविता तुरीयपदात्मा चतुष्पात् पूरुषः, अमुं वै दर्शनीयं सन्तं योगात्, उत दर्शयितारं तं परमं सुसन्दृशम्, ज्योतिरात्मानमृषिस्तुष्टावच्छन्दसा, संविदा भावेन कर्मणा तदुपास्त्यै योगेनोत सामरस्येन समम् , सर्वत्र सूक्तांते भूय एवानुश्रावणम् “ज्योतिर्विश्वस्य दर्शयत्" इति वै तत् समानं सातिमानम् ॥ १ ॥ " असौ यः" सप्तर्चम, सावित्रमानुष्टुभम्, चतुर्थ्याम् अग्निरिन्द्रः सूर्यश्च, पञ्चम्यां पुनः श्रुतं समिष्टम् , “ज्योतिर्विश्वस्य दर्शयत्" इति वै तद् विशिष्टम् || २ || “ अग्ने तव" चतुष्कमाग्नेयम् त्रयम् , त्रैष्टुभम् तृतीया जगती ॥ ३॥ “अग्निरय ” दशर्च द्वे, जागतं पञ्चकम् ॥ ४-५ ॥ “यो विद्युता" पञ्च नि त्रीणि, मरुत्वान् इन्द्रः स प्रथमे ॥ ६ ॥ “यो दिक्षु" वायुरिन्द्रवान सद्वितीये ॥ ७॥ यो रुद्रस्य रुद्रो मरुत्पिता" ॥८॥ "त्रयस्तेऽन्तरिक्षाधिपतय: संस्तुताः” इति वै त्रिदैवत्यो भौवनेयोऽनुवाकः प्रथमः ॥ १॥ "वाचं देवीं" द्वादशर्चम् सारस्वतानि द्वादशकानि आद्यमानुष्टुभम् || ९ ॥ " नमस्ते" अष्टर्चे द्वे, जागतानि एकादशकानि ॥ १०॥ “ सरस्वति त्वम्' अष्टके || ११ ॥ एकादशचं चतुर्थम् ॥ १२॥ अष्टचं पञ्चमम् || १३॥ एकादशचं षष्ठम् || १४ ॥ अष्ट, 490
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy