SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ 474 छन्दोदर्शनम द्वितीया ऋक् । अदितिर्या माता देवानामेका यदपदी सा वाचाऽभवञ्चतुष्पदी || ब्रह्मणाऽऽण्डमिदं सुषुवे बहिर्धा सुपूर्ण इवात्मन् सम्भृतं विश्वम् ॥ २ ॥ पदपाठः – अदितिः । या । माता । देवानाम् । एका । यत् । अपदी । सा । वाचा । अभवत् । चर्तुःऽपदी ॥ ब्रह्मणा । आण्डम् । इदम् । सुसुवे । बहिःऽधा । सुपर्णःऽईव । आत्मन् । सम्ऽभृतम् । विश्वम् ॥ Aditi is the mother of gods. She is one (without any characteristics like name, form, number, magnitude, parts etc.). With vak she became four-footed 'fourfold.' She conceived this egg of the universe through Brahma and brought it out, like a bird which nourishes its egg within its body. अन्वयभाष्यम् । या अदितिः आदिभूता देवानां विश्वेषां देवतात्मनां माता प्रसवित्री जननी स्वस्मिन् अन्तः, परमे व्योमनि गर्भरूपेण धारयित्री च, एका प्रधाना एकात्मिका अखण्डसत्त्वा स्वयं अपदी अंश-मात्रा-मान-पाद-मर्यादादिरहिता सती, वाचा आत्मीयया परमव्योमतन्मात्रात्मिकया पूर्णबिन्दुसत्त्वया सह सा चतुष्पदी चतुष्पात्सत्त्वपूर्णा यत् खलु अभवत समपद्यत, सैव ब्रह्मणः परमात्मनः चैतन्यसत्त्वात् विनिःसृतं विश्वबीजं आत्मन् आत्मनि स्वस्मिन् परमे व्योमनि गर्भरूपेण सम्भृतं इंदं विश्वं विश्वरूपं अण्डं तत् अखण्डं एकात्मकं ब्रह्माण्डसञ्ज्ञकं बहिर्धा बाह्येन भौतिकतत्त्वयुक्तेन भुवनरूपेण सुषुवे बहिरुत्ससर्ज, “सुपर्ण इव" इति दृष्टान्तप्रदर्शनं लोके प्रत्यक्षसिद्धम्, यथा पक्षिणः सकाशात् अण्डाविर्भावः इति, तत्र सा देवानां माता सा अदितिः अष्टौ पुत्रान् प्रथमत: सुषुवे, तस्मात् सा अष्टपुत्रा इति प्रसिद्धिं जगौ, " अष्टौ पुत्रासो अदितेयं जातास्तन्व१स्परि | देवा उप प्रेत् सप्तभिः परा मार्ताण्डमास्यत्" (ऋ. मं. १०-७२-८) इति तदनुश्रवणम् ॥ मन्त्रान्तरं च भवति, " सप्तभिः पुत्रैरदितिरुप प्रेत् पूयं युगम् । प्रजायै मृत्यवे त्वत् पुनर्मार्ताण्डमाभरत्" (ऋ. म. १०-७२-९) ते च अष्टौ देवतात्मान: अदितिपुत्रत्वेन संस्तुता यजुषि अनुश्रूयन्ते- “मित्रश्च वरुणश्च | धाता चार्यमा च | अंशुश्च भगश्च 1 इन्द्रश्च विवस्वाँश्च" (तै. आ.) इति ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy