SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 430 छन्दोदर्शनम् नवमी ऋक् । साकं वत्सेन दोग्यो३मां वत्सं रक्षत मातरः ॥ युष्मान् त्सायमर्थ प्रातरुपायातमिमं स्तन्यैः ॥९॥ पदपाठः - साकम् । वत्सेन । दोग्ध्रयः । माम् । वत्सम् । रक्षत । मातरः । युष्मान् । सायम् । अर्थ । प्रातः । उत । आऽयातम् । इमम् । स्तन्यैः ॥ Oh milch mother-cows, protect me your son with milk who am coming to you morning and evening along with your calves. अन्वयभाष्यम् । हे दोग्ध्रयो मातरः! वत्सेन निजेन साकं सहमिलिता: सत्यः भवत्य: वत्स स्वकीय भावितं सन्तं पुत्रभूतं मां सायं सायंसन्ध्यायां अथ पुनः प्रातःसन्ध्यायां च युष्मान् उप समीपे प्रति आयातं आगतं इमं मां गोसेवकं जनं निजं भक्तं स्तन्यैः पयोभि: संरक्षतेति || अनया गोमातृभ्यः आत्मरक्षां ऋषिर्याचते, चिरसान्निध्येन तासां अनुदिनं अनुसन्ध्यं च नियतया उपासनया तपस्यन् गोसेवाव्रतपरायणः इति विशेषः ॥ COMMENTARY-SUMMARY TRANSLATION Oh milch mother-cows, along with your calves, protect me with milk. I am your son and devotee coming to you in the morning and evening. The Rshi prays for protection from the mother cows by long and close association with them and by devoting himself to their service every morning and evening. दशमी ऋक् । गावो मे नित्यं सुपूतं स्रावयन्तु रसं स्वीयम् | पयोऽध्यन्तः प्र चैतयेज्ज्योतिर्विश्वस्य दर्शयत् ॥१०॥ पदपाठः – गावः। मे। नित्यम् । सुऽपूतम् । स्रावयन्तु । रसम् । स्वीय॑म् । पर्यः । अधि । अन्तः । प्र । चेतयेत् । ज्योतिः। विश्वस्य । दर्शयत् ।। May the cows make flow a stream of their pure milk which awakens in me the light of the sun, which illuminates the whole universe.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy