SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् energy which is the fourth foot. He placed his four feet within the inner heart of all possessing bodies and intellects, as well as powers of speech, vital airs and mind. द्वादशी ऋक् I वैश्वानरोऽयं पुरुषोऽन्तः प्रथम स्तेज॑साऽऽत्माऽप॑रः प्रज्ञाताऽऽन्त॑मः ॥ यः प्रचेतनः॑ प्र॒त्यङ्ङति॑ि तु॒रीय॒ - स्तप॑सा धी॒भिः पुरु॑षं॒ तं प्रपद्ये ॥ १२ ॥ पदपाठः - वैश्वानरः । पुरुषः । यः । प्रथमः । तेज॑सा | आत्मा | अप॑रः । प्रज्ञाता । आऽअन्त॑मः || यः । प्र॒ऽचेतन॑ः । प्र॒त्यङ् । अति॑ । तु॒रीय॑ः । तप॑सा | धभिः । पुरु॑षम् । तम् । प्र । पद्ये ॥ 381 This inner Purusha is the first known as Vaiśvānara. Tejas is the second. The third is Prajña who is the innermost. The fourth is pure conscious energy dwelling in the deepest recesses of all and different from and transcending all these three. I attain that Purusha by means of meditation and concentrated thought. अन्वयभाष्यम् | यः अयं अन्तरात्मा वैश्वानर : स्थूलशरीराभिमानी प्रथमः पूरुषः, तेजसा आत्मा तेजः शरीर: तैजसाभिधान: अपर: द्वितीयः, प्रज्ञः प्रज्ञानसत्त्वः परः अन्तर: आन्तरतरः प्राज्ञसञ्ज्ञकः तृतीय:, ते एते त्रयः पूरुषाः जागृति - स्वप्न - सुषुप्तिरूपावस्थात्रयसाक्षिणः, यः प्रचेतनः केवलं चेतनः प्रत्यङ् आन्तरतमः अति शरीरत्रयं अवस्थात्रयं च अतीतः तुरीयः तुरीयपदाभिधः, स एव अतितुरीयोऽपि तुरीयातीतो भवति अमात्र: इति यावत्, तं पुरुषं सर्वान्तर्यामिणं धीभिः तदेकानुसन्धानपराभिः तस्मिन् प्रलीनाभिः तपसा केवलेन विमर्शेन प्रपद्ये अपरोक्षतः तादात्म्येन प्राप्नोमीति । तदिदं तत्त्वं माण्डूक्योपनिषदि विस्तरशः प्रतिपादितं सर्वमपि अनुसन्धेयम् || COMMENTARY-SUMMARY TRANSLATION This Purusha in this body is Vaiśvānara. He presides over the physical body. He is the first. The second who has a body of light is known as Tejas.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy