SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ 370 छन्दोदर्शनम अन्वयभाष्यम् । यस्य पुरुषस्य वितताः विश्वतः विशेषेण च व्याप्ताः विभूतयः सर्वगुणैश्वर्यादि योगपूर्णाः सत्त्वमूर्तयः शक्तिस्वरूपाः अनन्ताः असङ्ख्याता अन्तरहिताः कल्पना-भावनाद्यतीताश्च भवन्ति, तद्विभूतियोगसत्त्वोदिता: ज्योतिष्मन्त: ज्योति प्रतीकाः ते रश्मयः किरणरूपाः प्रचेतना: केवलं प्रज्ञान-चैतन्यसत्त्वा: सन्ति, यस्य च सन्दशः संविदादिसत्त्वपूर्णाः दृष्टयः शिवाः कल्याणरूपाः शान्ता: आत्मशान्तिरससम्प्लुताः मनीषाः प्रबोधसत्त्वा: सौमनस्येषयित्र्य: भवन्ति, धीभिः तादृशीभिरेव सत्त्वमयीभिः पूर्णात्मना सह संयोगार्हाभिः अन्तरात्मवृत्तिभिः तपसा अन्तर्विमशन तं परमं पुरुषं प्रपद्ये तादात्म्येन अपरोक्षतः प्राप्नोमीति || COMMENTARY-SUMMARY TRANSLATION Endless are bis powers of glory They are full of all virtues and magnificence. They are pervading everywhere. His rays filled with his greatness and light are pure energy. His powers of sight blended with knowledge are auspicious. They are full of the essence of inner peace. Being full of knowledge, they inspire the mind. चतुर्थी ऋक् । यो विश्वेषां सौमनस्यः प्रियतमो यो भद्रो भद्रतमो भगवान भर्गः ॥ यो वा रसो यो रसतमः शन्तम स्तपसा धीभिः पुरुषं तं प्रपद्ये ॥ ४ ॥ पदपाठः - यः । विश्वेषां । सौमनस्यः । प्रियऽतमः । यः । भद्रः । भद्रऽतमः । भरोऽवान् । भर्गः ॥ यः। वा । रसः । यः । रसऽतमः । शम्ऽतमः । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥ He is good-willed to one and all. He is the dearest of all. He is the most auspicious. He is the best of the auspicious. He is a Bhagavān and Bharga the brightest. He is the essence of bliss indeed and the best of bliss. He is beatitude itself. I attain him by means of meditation and deep thinking.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy