SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ 368 छन्दोदर्शनम COMMENTARY-SUMMARY TRANSLATION This Purusha is the most ancient being. He is the first as well as foremost. He has no beginning. He is the Over-lord of this universe. He is the best of all the things celestial; he is illuminating and effulgent. He is invisible to our senses. He is the light beyond all darkness; the darkness means ignorance, non-existence, destruction, constant change. He is the light par excellence. He illumines all and everything in this universe. He is the most supreme god. He is the inner soul which is pure energy, the energy of light. द्वितीया ऋक् । असौ दिव्यो विश्वरूपः सन् पुरुषो दिव्येन ज्योतिषा चक्षुषा प्रतीक्ष्यः ॥ यः सुमन्टगेव ज्योतिगत्माऽऽन्तर स्तपसा धीभिः पुरुषं तं प्रपद्ये ॥२॥ पदपाठः - असै। दिव्यः । विश्वऽरूपः । सन् । पुरुषः । दिव्येन । ज्योतिषा । चक्षुषा । प्रति । ईक्ष्यः ॥ यः । सुऽसन्दक् । एव । ज्योतिःऽआत्मा । आन्तरः । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥ This Purusha, the shining and Omnifarious being is capable of being seen by divine eyes full of light. He the luminous one with a penetrating sight is the indwelling Ātman. I attain him by meditation and deep thought. अन्वयभाष्यम् । असौ विप्रकृष्टः दिव्यः पुरुषः दिवि मण्डले अन्तः प्रतिष्ठितः आदित्यः तदन्तर्यामी च अलौकिकः भौतिकात् परतरः अधिदैवतसत्त्वः विश्वरूपः स्वेन रूपेण प्रचेतनेन विश्वतो व्याप्तः, सन् सत्म्वरूपः, अत एव दिव्येन तदनुरूपेण तत्साजात्यसत्त्वविशिष्टेन ज्योतिषा ज्योतिस्सत्त्वेन चक्षुषा आन्तर्येण प्रज्ञानेत्रेण प्रति प्रातिलोम्येन प्रत्यङ्मुखेन ईक्ष्यः दर्शनीयः ईक्षितुं योग्यश्च भवति, तदिदं तदर्शनस्वरूपम–स एव स्वयं “सुसन्दक " इति, सम्यग् द्रष्टा इति द्रष्टुत्वरूपेणैव तदर्शनम् न तु दृश्यरूपतयेति भाव: | अस्मिन्नर्थे सुस्पष्टार्थकं ऋङ्मन्त्रदर्शनम् – “सुसन्दृशं त्वा वयं प्रति पश्येम सूर्य | विपश्येम नृचक्षसः" (ऋ. मं. १०-१५८-५) इति ॥ तथा च औपनिषदं ब्राह्मणानुवचनम् - " एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः " (प्र. उ. ३-९) इति ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy