SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 355 पदपाठः - सर्वऽहुतः । तप॑सः । अग्नौ । आत्मन् । यज्ञे । विश्वानि । एव | भूतानि । आऽजुहाव । पुरुषः ।। यः । आत्मानम् । एव । अनु । अर्जुह्वत । भूयः । तपसा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥ In the Sarvahuta sacrifice (in which everything is sacrificed ) the Purusha offered everything as sacrifice into the fire of concentration. Again, he sacrificed all the beings in the universe also. Finally he sacrificed himself in himself. I attain that Purusha by concentration and hard thinking. अन्वयभाष्यम्। तस्य परमपुरुषस्य सर्वमेधस्य यज्ञस्य यज्ञरूपस्य च तपसः अग्नौ आत्मनि चैतन्यज्ञानज्योतिःस्वरूपे यज्ञे यज्ञरूपे तस्मिन् यजनीये स्वस्मिन् अन्तर्यामिणि परमे अग्नौ तस्मिन् परमे यज्ञे च यः पुरुषः विश्वानि सर्वाणि भूतानि हवि:स्वरूपाणि भोग्यानि आजुहाव आहुतिरूपेण अशेषेण समर्पयामास, तथा भूयः पुनरपि तस्मिन्नेव यज्ञीये तपोऽग्नौ तं सर्वहुतं यज्ञं अनु अनुसृत्य अन्ते आत्मानं यजमानमपि अजुहोत हवनरूपेण समर्पयत्, तं परमं पुरुषं तपसा तादृशेन तदनुरूपेणैव प्रत्यक्संयमेन धीभिः सर्वधीन्द्रियवृत्युपसंहृताभि: ताभिरेव आत्मवृत्तिभिः विशुद्धसत्त्वाभिः निविषयवृत्तिभि: चैतन्ययोगेन प्रपद्ये अपरोक्षतः तादात्म्येन प्राप्नोमि इति तदर्थसद्भावः ॥ अस्मिन् ऋमन्त्रवर्णो भवति-- " य इमा विश्वा भुवनानि जुह्वदृषिोता न्यसीदत् पिता नः” (ऋ. मं. १०-८१-१ ) इति || __ अत्र यास्कनिरुक्तमपि तमेनमेवार्थमुपबृंहयति - "अत्रेतिहासमाचक्षते-विश्वकर्मा भौवनः सर्वमेधे सर्वाणि भूतानि जुहवाञ्चकार, स आत्मानमेवान्ततो जुहवाञ्चकार ॥ २ ॥ तदभिवादिनी एषा ऋग्भवति -- “य इमा विश्वा भुवनानि जुह्वत्'” (नि. १०-२६-३) इति || तस्योत्तरा भूयसे निर्वचनाय-"विश्वकर्मन् हविषा वावृधान: स्वयं यजस्व पृथिवीमुत द्याम्” (ऋ. मं. १०-८१-६) (नि. १०-२७-१) इति च ॥ अत्र छन्दोदशनेऽपि तत्समानमेव सर्वमेधसयज्ञसन्दर्शनमिति || COMMENTARY-SUMMARY TRANSLATION He performed the highest penance and sacrifice called Sarvamedha. Then in the sacred and supreme fire of his own intelligent energy, the Purusha sacrificed all the beings as oblations, which are objects of enjoyment. In the same sacred fire of Tapas which means internal self control, and with all the senses withdrawn, and by meditation without any particular object, I attain him. By communion with him I attain him: “He is the seer, the
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy