SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 361 छन्दोदर्शनम् "बाहुवोर्बलम्" (ना. उ. १६) इति बाहोलकर्मयोगः, “सहस्राणि सहस्रधा बाहुवोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि " (तै. सं.) इति भगवतः रुद्रस्य बाह्वोः बलादिसर्वक्रियाशक्तिमत्त्वं तथा तदीशितृत्वं च अनुश्रयते । तत् सर्वमपि बलकर्म इन्द्रस्यैवेति गम्यते ऋमन्त्रवर्णात, तथाहि- “इन्द्रस्य बाह्वोभूयिष्ठमोजः ॥ ___“बलविज्ञा य: स्थविर: प्रवीरः सहस्वान् वाजी सहमान उग्रः" (ऋ. म.१०-१०३-५) " गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा" (ऋ. मं. १०-१०३-६) इति च ॥ " इन्द्रो मे बले श्रितः" (ते.) इति च यजुः || यश्च विश्वशक्तिः सर्वशक्तिपूर्णः, विश्वकर्मा सर्वकर्मकर्तृत्वशक्तिपूर्णः, अत एव महस्वान् तेजस्वान् ओजस्वान्, तदेतद् विद्युदात्म रुद्रियं सत्त्वं भवति ॥ " न वा ओजीयो रुद्र त्वदस्ति" (ऋ. मं २-३३. १०) इति तदनुश्रवणम् || तेजोमयस्य सूर्यादेः सर्वकर्मप्रवर्तकत्वं प्रत्यक्षसिद्धमेव, एतेन सूर्येन्द्ररुद्रादितेजोविभूतिपूर्णः स परम: पुरुष: इति सिध्यति ॥ यः सोमसत्त्वः सोमादिरसस्वरूपः चान्द्रमसश्च दिव्य: मनस्वान् आध्यात्मकमानससत्त्वपूर्णः, " चन्द्रमा मनसो जातः" (ऋ. में १०-९०-१३) इति तदनुश्रवणम्, “यो जात एव प्रथमो मनस्वान्० स जनास इन्द्रः" (ऋ.मं. २-१२-१) इति च तदनुश्रवणात् यस्य इन्द्रात्मता अनुगम्यते || यश्च विश्वकामः सर्वतन्त्रस्वतन्त्रेच्छासङ्कल्पादिशक्तिपूर्णः, इच्छाया: सङ्कल्प-भावनादीनां च मनोबीजसत्त्वात, “कामस्तदने समवर्तताधि मनसो रेत: प्रथमं यदासीत्" (ऋ. मं. १०-१२९-४) इति मन्त्रवर्णः || "सर्वेषां सङ्कल्पानां मनः एकायनम् " (बृ. उ. ४-५.१२) इति च ब्राह्मणम् || "काम: सङ्कल्पो विचिकित्सा धीही रित्येतत् सर्वं मन एव" (बृ. उ.) इति च तदनुश्रवणम् ॥ तं तादृशं पुरुषं धीभिः तादृशीभिः व्यापकसत्त्वमयीभिः सर्वधीन्द्रियवृत्तिभिः सवत्र व्याप्ताभिः भगवतः दिव्यविभूतिसत्त्वसमन्वयेन तथा बाह्यभौतिकविषयेभ्य: अन्त: प्रत्युपसंहृताभिः तपसा तद्भावानुनिरतेन आध्यात्मकेन आन्तर्येण अलौकिकेन साधनेन तदेकनिष्ठया च अपरोक्षतः तं स्वं पुरुषं प्राप्नोमीति ॥ COMMENTARY-SUMMARY TRANSLATION This Purusha, the supreme, is really a very great one. He is above and beyond all. He is a Visva-bahu, that is, he is all arms, he can do anything. Cf. "He has arms all round” (Rg. X-81-3). “He has hands all round" (Tait. Sam. IV-2-6-4). Upanishads follow up with the statement, “For all the work to be done, the hands are the only means" ( Br. Up. IV-5-12). 'Thousand-handed is the Purusha” (Athar. Sam. XIX-6-1). Here is a reference to Purusha with Sahasra, that is innumerable or infinite hands. He is the possessor of strength. “There is strength in the arms." This
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy