SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 298 छन्दोदर्शनम् ष्ठाऽस्मि त्वं तद् वसिष्ठोऽसीति"-बहुप्रपञ्चेन अन्ततः निर्णीतं दृश्यते "प्राणो वसिष्ठः।" इति || " सोऽपि मुख्यः प्राणः एव भवितुमर्हतीति' (बृ. उ. ६-१-१-१४ ) (छां. उ. ५-१-१३)॥ " तान् वरिष्ठः प्राण उवाच " (प्र. उ. २-३) इति च तस्य वरिष्ठत्वम् || प्राणस्यैव वशित्वमपि प्रतिज्ञायते—“प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् (प्र. उ. २-१३) इति ॥ तस्यैव इन्द्रात्मतयाऽनुश्रवणं ऋङ्मन्त्रे विद्यते—“ यदद्य कच्च वृत्रहन् उदगा अभि सूर्य | सर्वं तदिन्द्र ते वशे " इति, “ इन्द्र इद्धिश्रुतो वशी" इति च । यः उर्वश्या: बहुतरं व्याप्तायाः विद्युत: विशुद्रपायाः चिच्छक्तेः सकाशात् मनसः मनोऽधिष्ठितात् चन्द्रमसो रसात्मनः उदगात् आविर्बभूव | अत एव सः वसिष्ठः अयोनिजः ब्रह्मणो मानसः पुत्रः इति पौराणिकी प्रसिद्धिः सङ्गच्छते ॥ अत्र अयोनिजस्य तस्य वसिष्ठस्याविर्भावे वसिष्ठायं ऋङ्मन्त्रदशनमनुसन्धेयम् – “विद्युतो ज्योतिः परि सजिहानं मित्रावरुणा यदपश्यतां त्वा ॥ तत् ते जन्मोतकं वसिष्ठागस्त्यो यत् त्वा विश आ जभार" (ऋ. मं. ७-३३-१० ) इति ॥ " उतासि मैत्रावरुणो वसिष्टोर्वश्या ब्रह्मन् मनसोऽधि जातः" (ऋ. मं. ७-३३-११) इति च || “ अप्सरसः परि जज्ञे वसिष्ठः” (ऋ. मं. ७-३३१२) “सत्रे ह जातौ० ततो जातमषि माहुर्वसिष्ठम्" (ऋ. मं. ७-३३-१३) इति च || ___य: मन्त्रकृदेव मन्त्रद्रष्टेव सन् महमां तेजसां तेजस्विनां च महस्वान् महान् तेजस्वी पूज्यश्च बभूव | सः अयं आत्मा सत्यादिलक्षण: सर्वज्ञः इति ॥ COMMENTARY-SUMMARY TRANSLATJON Ātma is indeed Vasi, self-possessed, all the pràņas and senses being under his control. So, of all the seers, he is the best and capable of doing everything independently. Thus, by name also, he is known as Vasishtha. In the Upanishads, these prăņas are being described as seers. Cf: “On its banks, are the seven seers: thus the pränas are the seers and this refers to the pranas only" (Br. Up. II-2-3). Atmā is Mukhya Prana. He is a mindborn son of Brahma and not born of any woman, so say the Puranas. Re: Vasishtha's birth, “Mitra and Varuna saw you (Vasishtha) as a spark of light issuing from lightning" (Rg. VII-33-10). पञ्चमी ऋक् । यो अन्तर्गर्भे समात्मानं वेद चिदाविरभूद् यो विश्वाऽत्मना || मन्त्रदृगेवर्षियों वामदेवः स सत्योऽयममृतो विश्ववेदाः ॥ ५॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy