SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ 276 छन्दोदर्शनम् पष्ठी ऋक् । अयं वैश्वानरो विश्वमभ्यश्नोति तपसा द्यावापृथिवी अन्तरिक्षम् ॥ अयं वाचा प्राणेन मनसाऽभ्यूळहो ऽयं प्रचेतनाभ्यनाति भूतिम् ॥ ६ ॥ पदपाठः - अयम् । वैश्वानरः । विश्वम् । अभि । अश्नोति । तप॑सा । द्यावापृथिवी इति । अन्तरिक्षम् ॥ अयम् । वाचा । प्राणेन । मन॑सा । अभिऽऊळहः । अयम् । प्रऽचेतनैन । अभि । अश्नाति । भूतिम् ।। This Vaisvānara (universal soul) pervades the whole universe. It pervades the sky, earth and mid-air by means of tapas. Being endowed with the power of speech, with vital breath, and with the mind, the soul enjoys the universe fully through consciousness. अन्वयभाष्यम् । अयं अन्तरात्मा वैश्वानरः विश्वेषु नरेषु अन्त: व्याप्तः सन् तपसा तेज किरणेन ज्ञानेन चैतन्यसत्त्वेन च विश्वं इदं अचेतनं भूत जातं सचेतनं प्राणिजातं च अभि अभितः सर्वतः अश्नोति व्याप्नोति, तथा द्यावापृथिवी अन्तरिक्षं चेति प्रसिद्ध एतत् प्रत्यक्षं भुवनत्रयात्मकं ब्रह्माण्ड अन्तर्बहिरपि पूर्णः सन् अधितिष्ठति, सोऽयमात्मा सर्वान्तर: वाचा तेजोमय्या, प्राणेन आपोमयेन, मनसा अन्नमयेन, च एतै: त्रिभिः त्रिवृत्कृतेन अन्तःसत्त्वेन अभिऊळहः ऊढः सङ्कलित: निगूढः सन् अयं आत्मा प्रचेतनेन संविद्-इच्छा-क्रियाचेतनासत्त्वेन इदं विश्व अभ्यश्नाति भुनक्ति, ज्ञानेन कामेन (भावनेन) कर्मणा च अयमात्मा वाचा प्राणेन मनसा च सह यद् विहरति (विषयेषु ) यद् यद् व्यवहरति च तत् सर्वमपि अस्य अन्तरात्मनः तत्तद्विषयोपभोगरूपमेव सम्पद्यते इति भावः ॥ COMMENTARY-SUMMARY TRANSLATION This inner-self is called Vaiśvānara, as it is dwelling in every body. He pervades all animate and inanimate beings in the three worlds known as sky, earth, and mid-air. This inmost Atma is completely hidden in the form of power of speech, in the form of prâna and manas or mind. He enjoys this universe through knowledge, will and action.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy