SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पदपाठः - छन्दोदर्शनम् अयं धीभिरभि सन्धत्ते तद् बृहद् - अयं वाचाऽनुवक्ति ब्रह्म सत्यम् ॥ ३ ॥ अ॒यम् । वि॒श्ववे॑दाः । पुरु॑षः । अयम् । परैः । अयम् । ब्रह्म॑णा । तप॒स्यति । अनु॑ । अज॑स्रम् ॥ अयम् । धीभिः । अभि । सम् । धत्ते । तत् । बृहत् । अयम् | वाचा | अनु॑ । वक्ति । ब्रह्म । सत्यम् ॥ 271 This Atma is the Purusha; Atma is omniscient. He is supreme. He practises tapas (austerity constantly by repeating mantras to attain Brahma. Through all the activities of his intellect, he is in constant touch with Brahma, the great one. He expresses Brahma, the ever existing reality by his words. अन्वयभाष्यम् । 66 ,, अयं अन्तरात्मा विश्ववेदाः विश्ववित् सर्वभौतिक-भौवन- लौकिकादिज्ञानयुक्तः सर्ववैदिकतत्त्वज्ञानसहितः परः श्रेष्ठः सर्वेन्द्रियेभ्यः परतरः पुरुषः, अयम् ब्रह्मणा ब्रह्मार्थं ब्रह्मतत्त्वज्ञानार्थम्, अत्र इयं हेतौ तृतीया विभक्तिः ब्रह्मणा इति, तेन " फलमपीह हेतुः " इति न्यायात् ब्रह्मतत्त्वज्ञानार्थं इति अर्थो लभ्यते, तस्यैव सर्वश्रेष्ठफलरूपत्वात् ॥ तथैव ब्रह्मणा मन्त्रेण सर्वार्थसिद्धिहेतुभूतेन तन्मन्त्रयोगेन वा अजस्त्रं अखण्डधारणया आत्मानुसन्धानरूपया अनु तपस्यति अनुपदं तपश्चरति, सोऽयं आत्मा तथा तपस्यन् धीभिः सर्वैरपि ज्ञान-भाव-कर्मेन्द्रियैः सहसम्मिलितैः अभि अभितः सर्वप्रकारेण तत् परोक्षं बृहत् महत्तरं ब्रह्म सन्धत्ते धारयति तदेकलक्ष्येण निष्ठया धारणया च सर्वेन्द्रियाणि निर्विषयतया सन्दधाति, सर्वैः तैः बुद्धयादिभिः इन्द्रियैः अन्तर्बहिरपि यद् यद् जानाति भावयति द् यत्करोति च तत्र सर्वत्रापि सर्वसाक्षितया स्थितं ब्रह्मैव धिया अनुसन्धत्ते इति भाव: || अयं आत्मा वाचा परया अन्तरस्फुरणरूपया तत् परं सत्यं सर्वत्रापि सत्तया अनुस्यूतं ब्रह्मवस्तु अनु अनुलक्ष्य वैखर्या अपि तत्परं ब्रह्मैव अनुवदति, अयं यद् यद् वाचा वदति तत् सर्वमपि तस्य परब्रह्मण एव अनु वचनमिति भावः ॥ तदिदं साक्षात्कृतात्मनः ज्ञानयज्ञं तथा ज्ञानयमं सर्वं व्यवहारं च तथा तदभ्यासादिप्रक्रियानुक्रमं च ऋषिरनुश्रावयति अनेन छन्दोमुखेनेति ॥ COMMENTARY-SUMMARY TRANSLATION This inner soul or spirit is omniscient. He is endowed with all the material as well as spiritual and Vedic knowledge. He is a 'purusha' who
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy