SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ 268 छन्दोदर्शनम अथ पञ्चमः आत्मानुवाकः। अनुवाकः ५। सूक्तम् १ | ऋचः १-१० | आत्मा । प्रथमं आत्मसूक्तम् । अयमसौ पुरुषः दश, देवरातो वैश्वामित्रः, आत्मा, जगती । Now this the Fifth Section ( Anuvaka ) concerns Atma Section V: Hymn 1: Riks 1-10-ATMA This Hymn beginning with “Ayamasau purusho Brahmaṇaspatiḥ ” contains ten Rks. Daivaräta Vaiśvāmitra is the Rshi. Atmā is the god and the metre is Jagati. अथ प्रथमा ऋक् । अयंमसौ पुरुषो ब्रह्मणस्पतिरयं न आत्मा परः सत्पतिऋषिः ॥ अयं विश्वानि भुवनानि तपसा ऽभि चष्टे चेतसाऽस्मिन् निहितानि ॥ १ ॥ पदपाठः - अयम् । असौ । पुरुषः । ब्रह्मणः । पतिः। अयम् । नः । आत्मा । परः। सत्ऽपतिः । ऋषिः ।। अयम् । विश्वानि । भुवनानि । तप॑सा । अभिऽचष्टे। चेतसा । अस्मिन् । निऽहितानि ॥ This Atma is Brahmanspati, Purusha ( the Supreme Person. This Atma is the Paramātmā, the Lord of all Existence, the Seer. He sees all the worlds contained in him by the power of concentration and by his power to know all. अन्वयभाष्यम् । अयं अन्तरात्मा अपरोक्षतः सिद्धः सर्वान्तर: असौ सविता सर्वलोकप्रत्यक्षः पुरुषः पुरुषसत्त्वः, ब्रह्मणः प्रत्यक्षब्रह्मरूपायाः वाचः पतिः अधिष्ठाता बाह्यः दिव्यः देवतात्मा आन्तरो मुख्यप्राणस्वरूपः, अयं प्रत्यक्सत्त्वः स: परोक्षसिद्धः परः विश्वस्मात् श्रेष्ठः, आत्मा केवलं चैतन्यसत्त्वः सत्पतिः सत्स्वरूपः, सत: अस्य विश्वस्य अधिपतिः, ऋषि: द्रष्टा ज्ञान-दृक्छक्तिसम्पन्नः विश्वसाक्षीति भावः !! ___ सोऽयं तपसा निर्विषयसत्त्वेन केवलेन विमशन चेतसा मनसा सचेतनेन सम्यग्ज्ञानेन इमानि विश्वानि अभि अभितः बहि: चष्टे पश्यति, तथा तानि च अन्तः अस्मिन् आत्मनि
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy