SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 261 छन्दोदर्शनम् पदपाठः - यः। विश्वतः । सीम् । प्रथमम् । बभूव । स्वयम् । यस्मिन् । अन्यत् । न । वभूव । इह । किम् । स्वित् ॥ यः । एकः । सन् । तपसा । सम् । चिकेत । अन्तरिति । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ।। द्वितीया ऋक् । यो वा ज्योतिषा तपस्यन् सहसाऽन्तः स्वमक्षरं मन्त्रमीमनु स्वरति ॥ य ई स्वरेण विश्वमिदं समधमत् स सत्योऽयममृतौ विश्ववेदाः ॥ २ ॥ पदपाठः – यः । वा । ज्योतिषा । तपस्यन् । सहसा । अन्तरिति । स्वम् । अक्षरम् । मन्त्रम् । ईम् इति । अनु । स्वरति ॥ यः । ईम् इति। स्वरेण । विश्वम् । इदम् । सम् । अधमत् । सः । सत्यः । अयम् । अमृतः । विश्वऽवैदाः ॥ तृतीया ऋक् । य ई स्वरन्तं गुह्यमेवानु स्वरन् ओमिति स्वगं वाचं समुच्चरति || यो वाऽक्षरं सद् ब्रह्म परमं स सत्योऽयममृतो विश्ववेदाः ॥ ३ ॥ पदपाठः – यः । ईम् इति। स्वरन्तम् । गुह्यम् । एव । अनु । स्वरन् । ओम् इति। इति। स्वराम् । वाचम् । सम् । उत्ऽचरति ॥ यः । वा । अक्षरम् । सत् । ऊम् इति। ब्रह्म । परमम् । सः । सत्यः । अयम् । अमृतः। विश्वऽवेदाः ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy