SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् तस्येदु॒ विश्व॑मि॒दं भ॑वाति भद्रं ब्रह्म॒ तदा॒ज्योति॒र्विश्व॑स्य द॒र्शयत् ॥ ८ ॥ पपाठः– ब्रह्म॑णः। प॑तैः। यः। सम् । इ॒दम्। गृ॒णाति॑ । श्रुत् । अस्मै । दधा॑नः । अमृत॑म् । नाम॑ । गुह्य॑म् ॥ I 1 तस्य॑ । इत् । ऊ॒म् इति॑ । विश्व॑म् । इदम् । भवति | भद्रम् | ब्रह्म॑ । तत् । इ॒मति॑। ज्योति॑ । विश्व॑स्य । द॒र्शय॑त् ।। 169 For him only, who believes in Him and praises Him with the secret and eternal name of Brahmanaspati, the mystic symbolic word Im, this universe is rendered wholly auspicious. That Brahma in the form of Im is the resplendent light which illumines all in the universe. अन्वयभाष्यम् । यः उपासकः ब्रह्मविद्यासाधनपरायणः साधकः अस्मै सत्यात्मने ब्रह्मणस्पतये श्रद्दधानः श्रद्धां धारयमाणः तस्य ब्रह्मणस्पतेः ईम् इत्यनुकरणात्मकं गुप्तप्रणवस्वरूपं,- तथा अमृतं अमृतात्मसत्त्वस्वरूपं वाच्यार्थात्मना तादात्म्यसिद्धं गुह्यं गुप्ततरं वाचकं नाम एकाक्षरं नाम - बीजमन्त्रं सगृणाति संस्तौति, तस्य इत् तस्यैव साधकस्य इदं विश्व सर्वं जगत् भद्रं कल्याणप्रदं भवाति भवति, न तु अनित्यतया भासते, नापि विषमतया बाधते, अपि तु साक्षाद् ब्रह्मात्मस्वरूपेणैव भातीति भावः ॥ (C एवं तत् इ इति वाचकरूपं अक्षरं प्रत्यक्षं ब्रह्मैव भवति, वाच्य-वाचकयोः तादात्म्यात्, अभेदन्यायाद् वा,” तस्मात् ई इति तद्वाचकं नाममन्त्राक्षरं ब्रह्म, तथा तद्वाच्यार्थरूपं परं ब्रह्म, इति तत्सामरस्येन सिद्धं सत् विश्वस्य सर्वस्यापि जगतः तथा सद्वस्तुनोऽपि दर्शयत् प्रकाशकं स्वयं परज्ज्योतिरेव भवति, तत्परञ्ज्योतिः स्वरूपः स ब्रह्मणस्पतिः इति ॥ अस्मिन् अर्थ केचिद् ऋङ्मन्त्रवर्णाः एव प्रत्यक्षप्रमाणभूताः सन्ति ॥ तथा हि अधिभौतिकस्य जगतः ईङ्कारेण निर्देशः ॥ " य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् " (ऋ. मं. १-१६४-३२ ) इति ॥ परोक्षस्य परमात्मनः निर्देशोऽपि भवति ईङ्काराक्षरेण ॥ तिस्रो मातृस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमवग्लापयन्ति ” (ऋ. मं. १-१६४-१० ) इति ॥ अत्र न ई इति पदविभागात् ई इति अक्षरं लभ्यते, तस्य- परवस्तुनिदर्शकत्वेऽपि मन्त्रत्वं वाग्रूपत्वं च वस्तुसिद्धमेवेति गम्यते तदुत्तरार्धर्चेन, विश्वविदं वाचमविश्वमिन्वाम् " इति ॥ 66 “ मन्त्रयन्ते दिवो अमुष्य पृष्ठे 66 एवमेव अपरोक्षस्य अन्तरात्मनोऽपि निदर्शक: ईङ्कारः स्पष्टतरं अनुश्रूयते ॥ य ईंचिकेत गुहा भवन्तम् ” (ऋ. मं. १-६७-७ ) इति ॥ तस्यापि वाग्रूपत्वं उत्तरार्धचे CD-22
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy