SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 161 अथ तृतीयः ब्राह्मणस्पत्यः अनुवाकः। अनुवाकः ३ । सूक्तम् १ | ऋचः १-८ | ब्रह्मणस्पतिः। प्रथमं ब्रह्मणस्पतिसूक्तम् । ब्रह्मणस्पतिब्रह्मणा अष्टौ, देवरातो वैश्वामित्रः, ब्रह्मणस्पतिः, जगती । THE RSHI IS DAIVARĀTA Now this the Third Section (Anuvaka ) concerns Brahmanaspati Section III: Hymn 1: Riks 1-8-BRAHMANASPATI. 1 Hymn is on Brahmanaspati. This hymn beginning with 'Brahmaṇaspatir Brahmaņā' contains eight Rks. Daivarăta Vaiśvāmitra is the Rshi. Brahmaṇaspati is the god and the metre is Jagati. अथ प्रथमा ऋक् । ब्रह्मणस्पतिब्रह्मणाऽऽत्म होति ब्रह्म विश्वेषु भुवनेष्वाहितं यत् ॥ स इमा विश्वा भुवनाऽभि पश्यति स इदं जज्ञानः स उ वेद विश्वम् ॥ १॥ पदपाठ :- ब्रह्मणः । पतिः। ब्रह्मणा । आत्मन् । जुहोति । ब्रह्म । विश्वेषु । भुवनेषु । आऽहितम् । यत् ।। सः । इमा । विश्वा । भुव॑ना । अभि । पश्यति । सः । इदं । जज्ञानः। सः । ऊम् इति । वेद । विश्वम् ।। Brahmanaspati sacrifices or merges himself like an oblation, in himself, by uttering Brahma' which word pervades all these worlds. He visualises and sees all these worlds. Since he is the creator he knows them all. अन्वयमाष्यम्। अथात्र विश्वेषु भुवनेषु सर्वत: आहितं समन्तात् व्याप्तं यत् स्वयं विश्वैककारणरूपेण सर्वत्रापि अनुस्यूतं विततं ब्रह्म विश्वरूपं भवति, “सर्व खल्विदं ब्रह्म" इति च औपनिषदं ब्राह्मणम् (छां. उ. ३-१४ - १). तथा कार्यरूपेण विस्तृतं तदिदं सर्वमपि ब्रह्मरूपं जगत् प्रलयान्ते ब्रह्मणस्पतिः ब्रह्मणः वेदस्य ज्ञानस्य तथा शब्दब्रह्मणः वाग्रपस्य च अधिपतिः सः परोक्षसत्त्वसिद्धः केवलं चेतनात्मा परमः पुरुषः ब्रह्मणा जगबीजात्मकेन शब्दब्रह्मरूपेण मन्त्रेण आत्मन् स्वे चेतने आत्मनि स्वस्मिन् जुहोति समर्पयति हवनरूपेण, आत्मनः सकाशाद् वाचकशब्दशक्तिमुखतः वाक्सत्त्वात् प्रसृतं इदं विश्वं आत्मन्येव पुनः CD-21
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy