SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ६० सवृत्तिकः कविदर्पणः चउसुं सेयवस्स सा ॥ १२१ ॥ सैतवाचार्यमते चतुर्षु पादेषु सप्तमो लघुश्चेद् विपुलावक्त्रम् ॥ १२१ ॥ मो मव्विला ओयंमि ॥ १२२ ॥ ओजयोस्तुर्याक्षराद्यगणं बाधित्वा मगणः समयोस्तु सप्तमो लघुः स्थित एव चेन्मविपुला । ओज इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यक्तिपक्षे पुनरेकस्य प्रथमस्य तृतीयस्य वा । एवं वक्ष्यमाणविपुलास्वपि । तथा च महाकवीनां प्रयोगः ॥ १२२ ॥ [ जातिपक्षे यथा - ] व्यति (क्ति) पक्षे यथा— तथा- सर्वातिरिक्तं लावण्यं बिभ्रती चारुविभ्रमा । स्त्रीलोकसृष्टिः सा नूनं न सामान्यस्य वेधसः ॥ १२२·१ ॥ गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु । वर्तन्ते हेतवस्तासां सांप्रतं शुक्तिसंपुटाः ॥ १२२.२ ॥ तथा वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि निर्ज्ञातुमर्हति ॥ १२२.३ ॥ तहेव नो नविउला ॥ १२३ ॥ तथैव विषमांहितुर्याक्षरान्नगणश्चेन्नविपुला ॥ १२३ ॥ जातिपक्षे यथा— दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः || १२३·१ ॥ व्यक्तिपक्षे यथा— दीनायां दीनवदनो रुदत्यां साश्रुलोचनः । पुरः सखीजनस्तस्याः प्रतिबिम्बमिवाभवत् । १२३.२ ॥ [ चतुर्थोद्देशे अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ १२३.३॥ भोजइ ता भवि (व्वि) उला ॥ १२४ ॥ तथैव भगणश्चेद्भविपुला ॥ १२४ ॥ जातिपक्षे यथा इयं सखे चन्द्रमुखी स्मितज्योत्स्नावभासिनी । इन्दीवराक्षी हृदयं दंदहीति तथापि मे ।। १२४.१ ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy