________________
३४
सवृत्तिकः कविदर्पणः
एसा कडवयनिह छडुणिया इत्थ पढमबिहुयाण । तयछट्टआण [य] चउत्थपंचमाणं च अणुपासो ॥ ३१ ॥ [दशाष्टत्रयोदशभिर्वा इह द्वादशाष्टत्रयोदशभिरथवा । अष्टाष्टकादशभिर्वा दशाष्टैकादशभिर्वापि ॥ २९ ॥
द्वादशाष्टैकादशभिर्वा रविवसुरविभिर्वा कलाभिः । त्रिषु त्रिषु पादेषु क्रमशो दलयुगले बहुविधा घत्ता ॥ ३० ॥
एषा कडवक निधने छड्डुणिकात्र प्रथमद्वितीययोः । तृतीयषष्ठयोश्च चतुर्थपञ्चमयोश्चानुप्रासः ॥ ३१ ॥ ]
[ द्वितीयोद्देशे
' इह 'त्ति अस्मिंश्छन्दसि दशाष्टत्रयोदशादिकला यथासंख्यं क्लृप्तत्रित्रिपाद घटितार्धद्वया बहुविधा धत्ता नाम षट्पदी | वक्ष्यमाणस्य संधेर्मुखे कडवकस्य त्वन्ते ध्रुवमियं कार्यैव । ध्रुवा ध्रुव संज्ञाद्वयेपि एषा कडवकान्ते प्रक्रान्तार्थस्य भङ्ग्यन्तरेणाभिधाने छडणिकेति तुर्यनामापि । ' इत्थ 'त्ति अस्यां घत्तायां प्रथमद्वितीययोस्तृतीयषष्ठयोश्चतुर्थ पञ्चमयोः पादयोरनुप्रासः ॥ २९-३१॥
उदा० – मणि माणसमुद्धय । बप्पुड महय (मुद्धय) । जे जिणिंद तुह नहु णमिय । दुहसंघत्ताविय । कुसमय भाविय । ते नर निरु भवि चिरु भमिय ॥ ३०.१ ॥ [घत्ता ] ।
[ मनसि मानसमुद्धताः । मूर्खा वराकाः । ये जिनेन्द्र त्वां न प्रणताः ॥ दुःखसंघतापिताः । कुसमयभाविताः । ते नराः खलु भवे चिरं भ्रान्ताः ॥ ३०.१ ॥ ]
‘संघत्ताविय’त्ति ‘समासे वा' (हे ८.२.९७) इति द्वित्वम् । 'बप्पुडु 'ति शीघ्रादित्वाद्वराकस्य बप्पुडैः । 'निरु 'त्ति निश्चयार्थे अव्ययम् ॥ ३०.१ ॥
उदा० - जय जिणसासणणंदन (ण) । वणहरियंदण । निम्मलजसचंदणमलय । गुरुकुलगणदिवायर । गुणमणिसायर । तिलयसूरि गणहरतिलय ॥३०.२॥ महिभरसेसह । भीमनरेसह । जउ वज्जिय जयढक्क ।
तउ रिउवग्गह । भयभरभग्गह । हियडइ पडिय धसक्क ॥ ३०.३ ॥ भग्न अइयारिहिं । इक्कपहारिहिं । समरि सयंभरिराउ । घणरणकुड्डालह | कुमरप्पालह । तिणि मणि भइउ विसाउ ॥ ३०.४ ॥
[ जयजिनशासननन्दन - | वनहरिचन्दन । निर्मलयशश्चन्दनमलय | गुरुकुलगगनदिवाकर | गुणमणिसागर । तिलकसूरे गणधरतिलक ॥ ३०.२ ॥
महीभरशेषस्य । भीमनरेशस्य । यदा वाद्यते जयढक्का ॥
. तदा रिपुवर्गस्य । भयभरभग्नस्य । हृदये पतिता भीतिः ॥ ३०.३ ॥
भम्नोतिचारिभि- | रेकप्रहारेण । समरे शाकंभरीराजः ।
घणरणकौतुकवतः । कुमारपालस्य । तेन मनसि भक्तो विषादः (१) ॥ ३०.४ ॥ ]
१ The reference is to ० ८. ४, ४२२; but the actual word कवुड occurs under ८. ४. ३८७.