SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ३८ सटीको वृत्तजातिसमुच्चयः कर्णकरचरणविप्रांशकैः प्रथमस्थितैर्जानीहि । यथासंख्यं सर्वासां जातीनां वर्णपरिपाटीम् ॥ ८ ॥ जातीनां लक्ष्म्याद्यानां वर्णपरिपाटीमनेन क्रमेण ज्ञास्यथ । प्रथमं कर्णेन गुरुद्वयेन स्थितेनानन्तरं करेणान्तगुरुणा पश्चाच्चरणेनादिगुरुणा ततोऽपि विप्रांशकेनेति एवं प्रत्येकमंशकं यावद् गाथा हंसवधूः तावत्कार्यम् । अत्र च नांशका विवक्षिता इति । अपि तु क्रमेण रत्नस्य रसेन लोप इति । तेन करचरणयोरप्याववक्षा । सर्वथा गुरोर्लघुद्वयेन लोपादक्षरवृद्धिः प्रयोजनम् । अन्ये पुनरेतद्योगात् गाथाप्रभेदाः कोटिशः सन्ति तत्परमिति कथयन्ति । तदपि साधीयः । अस्मिंस्तु करचरणयोर्विवक्षैव । एतत् षष्ठानुवादपरं तत्र विस्तरेण प्रदर्श्यमानत्वात् ॥ ८ ॥ स्कन्धकलक्षणमाह — पंचन्ह इति । पंचण्ह सया पुरओ दुण्ह अ मग्गेण वारणाण णियमिअओ । जह दए पुग्वद्धे तह पच्छद्धेवि खंघअस्स गरिंदो ॥ ९ ॥ खंदएण खंदअस्स लक्खणं भणिअं ॥ पञ्चानां सदा पुरतो द्वयोश्वाग्रे वारणानां नियमितः । यथा दयिते पूर्वार्धे तथैव पश्चार्थे[sपि स्कन्धकस्य नरेन्द्रः ] ॥ ९ ॥ पूर्वार्धपश्चार्धे स्कन्धकस्य सदृशे कर्तव्ये इत्यर्थः ॥ ९ ॥ गाथावत्स्कन्धकजातयो भवन्तीत्याह - छव्वीसं इति । छव्वीसं जह गाहा रअणे लुत्ते रसम्मि वर्द्धते । एक्कोणत्तीसं खंधअस्स णामाई तह अ पिए ॥ १० ॥ षड्विंशतिर्यथा गाथा रहने लुप्ते रसे च वर्धमाने । एकोनत्रिंशत्स्कन्धस्य भेदास्तथैव ॥ १० ॥ स्पष्टार्थ गाथा ॥ १० ॥ एतेषां नामान्याह - पवण इति । पवणरविघणअहुअवहसुरणाहसमुद्दवरुणससिसेला । महुमाहवमअणजअन्तभमरा (र) सुअसारसमज (ऊ)रा ॥ ११ ॥ हरिहरिणहत्थिकाओं कुम्मो णअविणअविकमोच्छाहा । धम्मत्थकामसहिआ णवी (त्ती) सअ खंधआ होंति ॥ १२ ॥ पवनरविधन दहुतवहसुरनाथसमुद्रवरुणशशिशैलाः । मधुमाधवमदनजयन्तभ्रमरशुकसारसमयूराः ॥ ११ ॥ [चतुर्थो नियमः १ ममुकं AB. २ भेआ [पिए] तहवि Com. ३ काअंबकुन्दणअ० Com. खंदअणामाई ॥
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy