SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [तृतीयो नियमः मुखे वारणो यस्याः करौ विश्रान्तौ विरामे च यस्याः । द्वितीय आयुधः पश्चमात्रो यस्याश्च । दाविआ दर्शिता ॥२२॥ वारणबाण इति । वारणबाण जोहो चावअं च ताण पुरिल्लअं कुण पालंबअं च । जाणसु मुद्धिए भुअअणिोत्तअम्मि सर्वणसुहावए हंसीपाअअम्मि ॥२३॥ हंसी । वारणबाणौ योदं(ध) चापं च तेषां पौरस्त्यं तथा प्रालम्बकं च । जानीहि मुग्धे भुजंगनियुक्ते कर्णसुखावहे हंस्याः पादे ॥ २३ ॥ प्रथमतृतीयौ चतुर्मात्रौ द्वितीयचतुर्थौ पञ्चमात्रौ गुरुश्चान्ते हंस्या [पादे] । प्र(प्रा)लम्बकमाभरणम् । भुजगनियुक्ते कम्बलतराश्वरचिते ॥ २३॥ एको वारण इति । एक्को वारणओ बीओ तुरंगओ __ तइओ संदणओ बाणो चउत्थओ। पंचमअं च पुणो जीसे धअग्गअं सा जइ पाअडिआ पच्छा पिअल्लिए ॥२४॥ पथ्या। एको वारणो द्वितीयस्तुरङ्गः तृतीयः स्यन्दनो बाणश्चतुर्थः । पञ्चममपि पुनः यस्या ध्वजाग्रं सा गजे (जगति) ? (प्र)कटा पथ्या प्रियतमे ॥ २४ ॥ स्पष्टार्थम् ॥ २४॥ . जीअ तुरंग इति । जअि तुरंगबाणबाणासणपाणिजुअं णरिंदओ __ होइ अ पाअअम्मि चंदुजलओ विरमम्मि आ(हा)रओ। तं थोरोरु लडहबाहूलइए मअमुखडच्छिए जाणसु छंदआम्मि रइअत्ति पिए महुरक्खरिल्लिए ॥२५॥ रचिता । यस्यास्तुरंगबाणेबाणासनपाणियुगं नरेन्द्रः भवति च पादे चन्द्रोज्ज्वल (लो) विरामे हारः । तां थोरोरुलडहबाहुलतिके मृगमुग्धाक्षि जानीहि छन्दसि रतिरिति प्रिय(ये) मधुराक्षरवति ॥२५॥ पाणियुगान्तः समाहारे द्वन्द्वः । बाणासनं धनुः । एतदुक्तं भवति–चतुर्मात्रादनन्तरं पञ्चमात्रद्वयं पश्चाद्गुर्वन्तौ चतुर्मात्रावेव ततोऽपि मध्यगुरुः गुरुश्चान्ते यस्याः सा रतिर्नामेति । लडभः सविलासः । थोरं परिवर्तुलम् । मृगस्येव मुग्धे अक्षिणी यस्याः तस्या आमन्त्रणम् । मधुराक्षर[वति] इति पादविशेषणम् ॥२५॥ १ तह Com. २ कण्ण. Com. ३ एकोपावारणेति AB. ४ रतिका Com. ५ बाणा बाणानिषाणि. Ab. ६ ललितिके AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy