________________
पद्यानि २२-२७]
सटीको वृत्तजातिसमुचयः
[एते पञ्च प्रदेशा मध्यमं त्रिगुणं कुरुते । संख्या वर्णा मात्रा लघवो गुरवो भवन्ति पाताले ॥ २५ ॥ ]
एवमनेन प्रकारेण पञ्च प्रभेदा भवन्ति । तद्यथा अष्टौ चतुर्विंशतिर्द्वादश [द्वादश द्वादश] चेति । तेषां च यन्मेध्यमं स्थानं तत् त्रिगुणं कुरु । द्वादश त्रिभिर्गुणयित्वा षट्त्रिंशद्भवन्ति । एवं कृते संख्यादीनां पञ्चानां लाभो भवति ॥ उदाहरणम् ८, २४, ३६, १२, १२ । एवमस्मात् प्रभेदा अष्टौ त्र्यक्षरस्य, सर्वप्रभेदेषु च वर्णाश्चतुर्विंशतिर्मात्राः षट्त्रिंशत्, लघवो द्वादश, गुरवश्व द्वादश एवेति पातालाल्लभ्यते ॥ २५ ॥
शाल्मलिमाह—ठविऊण इति ।
ठविऊण तिणि तीस अ सत्तावीस अ कमेण एएण । व ंति दोण्णि एक्क व ल्हसइ अ एक्कं कमेणेअ ॥ २६ ॥ दोवड [इकहाणी] एक्के व तहा मज्झे । ता [समप्पइ एवं दोचिअ णिहणे ठिआ जाव । इअ संवलिपत्थारो] मत्तावित्ताण काअव्वों ॥ २७ ॥ छव्वीसं गाहाणं पत्थारो संवली मए भणिओ ।
स्थापयित्वा त्रीणि त्रिंशच्च सप्तविंशतिं च क्रमेणानेन । द्वावेको हसते कः क्रमेणैव ॥ २६ ॥ द्विवृद्धिरेकहा निरेकैको दीयते तथान्तः । तावत्समर्प्यत एतद् द्वावेव निधने स्थितौ यावत् ॥ इति शाल्मलिप्रस्तारो मात्रावृत्तानां कर्तव्यः ॥ २७ ॥ षड्वंशतेर्गाथानां प्रस्तारः शाल्मलिर्मया भणितः ।
इत्यनेन प्रकारेण मया गाथानां षड्विंशतेर्लक्ष्म्याद्यानां शाल्मल्याख्यः प्रस्तारो भणितः ।
त्रीणि त्रिंशत् सप्तत्रिंशतिश्चेति स्थानत्रये क्रमेणानेन अनया परिपाठ्या स्थापिते किं कर्तव्यमित्याहवति इति । तेन त्रिषु वर्धेते त्रिंशत्येक इति । सप्तविंशतावेकं तु हसते लुप्यते । एवमेकस्मिन् स्थाने द्वाभ्यां वृद्धिर्भवति तथा तृतीयेऽप्येकेन हानिर्भवति । अन्तेश्च मध्यस्थाने एकैकं वर्धते । अन्तःशब्दो मध्यपर्यायः । एवं कियद्यावत् क्रियत इत्याह- तावदेव तत् समर्प्यते हास्यते . यावन्निधनेऽवसाने द्वावेव द्वौ स्थितौ भवतः ॥ एतदेवोपसंहरति- इति शाल्मलिप्रस्तार इति ॥२६॥२७॥
किमर्थमित्याह — लहुआणं इति ।
१ प्रभेदाः १ २ यन्यव्यनं B. All words from तेषां च यत् to लाभो भवति ( both included) are dropped in A. ३ दिज्जए तहा तो Com. ४ ताव सतावित्ताणं काअव्वो होइ पत्थरो AB. ५ च वध्यते AB. ३ क्रमो नेव B; मानैव A. ७ त्रिंशत्स्वेति AB. ८ हृते ९ अन्त्यश्च AB.