SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ५४४ साहित्यदर्पणे प्राकृतं वचनं वक्ति यत्र तत्सैन्धवं मतम् । करणं वीणादिक्रिया। चतुरस्रपदं गीतं मुखप्रतिमुखान्वितम् ॥ २२० ॥ द्विगृढं रसावभाट्यम्-- -उत्तमोत्तमकं पुनः । कोपप्रसादजमधिक्षेपयुक्तं रसोत्तरम् ॥ २२१ ॥ हावहेलान्वितं चित्रश्लामबन्धमनोहरम् । तादृशः कश्चन = जनः, यत्र = यस्मिन, प्राकृतं = प्राकृतभाषात्मक, वचनं = वाक्यं, वक्ति - परिभाषते, तत् “सैन्धवं" नाम लास्याऽङ्ग, मतम् = अभिमतम् । उदाहरणं गवेषणीयम्। निगूढ लक्षयति-चतुरनपदमिति। चतुरस्राणि ( विदग्धमनोहराणि ) पदानि ( शब्दाः ) यस्मिस्तत् । यद्वा चतुरस्रपदं = पूर्णसप्तस्वरम्, अथवा पादचतुष्टयान्वितम्, किं वा नामाख्यातोपसगनिपातात्मकपदयुक्तम् । मुखप्रतिमुखाऽन्वितं=मुखप्रतिमुखसन्धिद्वययुक्तम् ।। २२० ॥ - रसभावाढ्यं-रसेन (भृङ्गारादिना ) भावेन ( रत्यादिना च) आढ्यं (सम्पन्नम् ) गीत "दिगूढं" नाम लास्याऽङ्गम् । द्वो रसमावी गूढी यस्मिस्तदिति व्युत्पत्तिः ।। उत्तमोत्तम लक्षयति-उत्तमोत्तमामिति । कोपप्रसादनं कोपात (क्रोधाद) प्रसादात् (प्रसन्नतायायाः) वा जातम् ( उत्पन्नम् ), अधिक्षेपयुक्तम् = अधिक्षेपेण (तिरस्कारेण ) युक्तम् ( उपेतम् ), अस्य विशेषणस्य कोपजत्व एव अन्वितत्वम् । तथा रसोत्तरं = रसः (शृङ्गारादिः ) उत्तरः ( श्रेष्ठः ) यस्मिस्तत् । तादृशम् उत्तमोतमकं नाम लास्याङ्गम् ॥ २२ ॥ उक्तप्रत्युक्तं लक्षयति--हावहेलाऽन्वितमिति । हावहेलाऽन्वितं = हावहेलाभ्यां-तृतीयपरिच्छेदोक्ताभ्यां नायिकाया भङ्गजालङ्काराभ्याम् अन्वतम् (युक्तम् ), चित्रश्लोकबन्धमनोहरं - चित्रः (विचित्रः) यः श्लोकबाधः (पद्यप्रबन्धः) तेन यहाँ प्राकृत भाषाका वाक्य बोलता है उसे "सैन्धव" कहते हैं। .. द्विगढ--विदग्धोंको मनोहर पदोंसे युक्त, मुख और प्रतिमुख सन्धिरी सहित और भावसे सम्पन्न गीतको द्विगूढ" कहते हैं। उतमोत्तमक-कोपसे वा प्रसन्नतासे युक्त, तिरस्कारसे सहित, श्रेष्ठ रससे युक्त लास्याऽङ्गको "उत्तमोत्तमः" कहते हैं ।। २२१ ॥ उक्तप्रयुक्त-भाव और हेला नामक स्त्रीके अङ्गज अलङ्कारोंसे युक्त, विचित्र
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy