________________
३९२
साहित्यदर्पणे
दूराद्दानं वधो युद्ध राज्यदेशादिविप्लवः । विवाहो भोजनं शापोत्सर्गों मृत्यू रतं तथा ॥ १६ ॥ दन्तच्छेद्य नखच्छेद्यमन्यद् व्रीडाकरं च यत् । शयनाधरपानादि नगराधवरोधनम् ॥ १७ ॥ स्नानानुलेपने चैभिर्वर्जितो नातिविस्तरः । देवी परिजनादीनाममात्य वणिजामपि
॥ १८ ॥
-
अथ नाटके वर्जनीय विषयानाह — दूरावानमिति । दूराह्वानं = दूरात् ( विप्रकृष्टप्रदेशात् ), आह्वानम् ( आकारणम् ) । वधः = व्यापादनं युद्धं संग्रामः | राज्यदेशादिविप्लव: - राज्यदेशादे: ( राष्ट्रजनपदादे: ), आदिपदेन ग्रामखर्वटादीनां परिग्रहः, विप्लव: ( उपद्रव: ) । विवाहः = परिणयः । भोजनं = भक्षणम् । शापोरसर्गः =शापः ( आक्रोशः ) उत्सर्ग: ( मलमूत्रत्यागः ) मृत्युः = मरणम् | रतं = रतिक्रिया, 'एभिर्वजित" इति अष्टादशश्लोकस्यपदाभ्यां सम्बन्धः । पूर्वोक्तानां विषयाणां रूपके प्रदर्शनं न कर्तव्यमिति भावः । एवं परत्राऽपि ।। १६ ।।
दन्तच्छेद्य - दशनच्छेदनीयं वस्तु । नखच्छेद्य = नखरच्छेदनीयं वस्तु । अन्यत् = अपरम् । यत् व्रीडांकरं = लज्जोत्पादकम् । शयनाऽघरपानादि = शयनं ( स्वापक्रिया ), अधरपानादि ( चुम्बनादि ) । नगराद्यावरोधनं पुरादिप्रतिरोधनम्, एभि: - पूर्वोक्तंविषयः, वजितः = रहितः, मङ्को भवेदिति भावः ॥ १७ ॥
=
स्नानानुलेपने = स्नानं ( मज्जनम् ) अनुलेपन चन्दनाद्यनुलेप:, एभिः = पूर्वोक्तः, विषयर्वजितोऽङ्कः स्यादिति भावः । नाऽतिविस्तरः- नाऽतिदैर्घ्यसम्पन्नः, अङ्कः स्यादिति भावः । देवीपरिजनादीनां देवी ( कृताऽभिषेका राजपत्नी ) परिजनादीनाम् (अनुगत जनादीनाम् ), अमात्यवणिजाम् अपि = मन्त्रिवाणिजकादीनाम् अपि ।। १८ ।।
अमें प्रत्यक्ष दिखलानेके लिए अयोग्य विषयोंका निरूपणं करते हैंवराह्वानम् । दूरसे बुलाना, वध, युद्ध, राज्यविप्लव और देश आदिका विप्लव, विवाह भोजन, शाप, मलत्याग, मरण और रतिक्रीडा ॥ १६ ॥
दन्तक्षत, नखच्छेद और भी लज्जाका उत्पादक विषय, शयन और अधरवान आदि, नगर आदिका घिराव ॥ १७ ॥
स्नान और चन्दन आदिका अनुलेपन, इनसे वर्जित हो और ज्यादा फैलाव न हो। देवी ( रानी ) और उनके परिजन ( भृत्य ) आदिका मन्त्री और व्यापारियोंके ॥ १८ ॥