SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे ____ द्वितीये तु-नाममात्रे विवादः, तन्मतेऽपि तुरीयवत्तिसिद्धेः । नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनम्-इति चेत् ? न, तयोहे तुफलभावाङ्गीकारात् । यदाह मुनिः-'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । सहभावे च कुतः सव्येतरविषाणयोरिव कार्यकारणभावः ? पौर्वापर्यविपर्ययात् । तात्पर्यवृत्या बोधकत्वमिति द्वितीयपक्षं दूषयति द्वितीये विति । द्वितीये तु र तात्पर्यवृत्या बोधकत्वमिति पक्षे तु, अनुयुङ्क्ते-केयं तात्पर्याख्या वृत्तिः ? अभिहिताग्वयवादिभिः = भाट्टमीमांसकः, अङ्गीकृता, = स्वीकृता, तदन्या वा = तद्भिन्ना वा ? | आद्य = प्रथमे, अमिहिताऽन्वयवादिभिरङ्गीकृता इति पक्षे, उत्तरं = समाधानं, दतम् एव = वितीर्णम् एव, पदानामन्वयबोधनेन परिक्षीणत्वात्तात्पर्यवृत्तेः व्यङ्गयार्थबोधना। • सामध्यमिति उत्तरं उत्तम् एवेति भावः । द्वितीये तु तदन्या वा इति पक्षे तु, अभिहिताऽन्वयवादिभिरङ्गीकृतायास्तात्पर्यवृत्तभिन्ना वा इति पक्षे तु इति भावः। नाममात्रेसंज्ञामात्रे, विवादः विरुद्धो वादः, तन्मतेऽपि = "तदन्या" इति स्वीकतु मतेऽपि तुरीय, वृत्तिसिद्धः । तेऽपि व्यङग्यार्थबोधने तुरीयां-चतुर्या वृत्ति, वारपर्यनामिकां स्वीकुर्वन्ति वयं व्यञ्जनाख्या वृत्ति स्वीकुर्मः, उभयत्र तुरीयवृत्तिसिद्धर्नाममात्र विवाद इति भावः । - अथ तात्पर्यवृत्या योगपर्धन विभावादिसंसर्गस्य रसादेन प्रकाशनं खण्डयतिनन्विति । ननु युगपत् = समकालम् एव, तात्पर्यशक्त्या = तात्पर्यवृत्या, विभावादिसंसर्गस्य - विभावादिसम्बन्धस्य रसादेव = व्यञ्जनाप्रतिपाद्यवस्त्वलकाररसादेशा प्रकाशनं - प्रतिपादनम्, इति चेत् ? न, तयोः - विभावादिसंसर्गरसायोः, हेतुफलभावाङ्गीकारात् = कारणकार्यत्वाऽभ्युपगमात् । विभावादिसंसर्गस्य कारणत्वं रसादेन कार्यत्वम् इति स्वीकारादिति भावः । अत्रार्थे भरतमुनिवचनं प्रदर्शयति-पबाहेति । मुनिः-भरतमुनिः, यत् माह ( स्म) = अकथयत् "विभावाऽनुभावव्यभिचारिसंयोगात् रसनिष्पत्तिः", इति । सहभावे च = विभावादिसंसर्गरसाद्योः युगपदुत्पत्तिस्वीकारे= योगपद्यन उत्पत्तिस्वीकारे, सव्येतरविषाणयोरिव-गोर्वामदक्षिणशृङ्गयोरिव, कुतः कार्य, कारणभाव:-फलहेतुत्वम् । पौर्वापर्यविपर्ययात-पूर्वाऽपरमावस्ययात् । यथा गवादेमिदक्षिणशृङ्गयो: उत्पत्तो सहमावेन कारणकार्यभावो नाऽस्ति, तथैव विभावादिसंसर्ग प्रब तात्पर्य वत्तिसेव्यग्य रस मादिके प्रतिपादनका खण्डन करते हैंयदि कहें कि तात्पर्य वृत्तिसे विभाव आदिके सम्बन्धका और रस आदिका प्रकाशन एक ही वार होता है ऐसा मानें तो यह ठीक नहीं है क्योंकि विभाव आदिका संसर्ग रस आदिका हेतु है और रस आदिका प्रकाशन फल माना गया है। जैसे कि भरतमुनिने कहा है"विभाव, अनुभाव और व्यभिचारियव इनके संयोगसे रसकी सिद्धि होती है" । कारण पहले होता है और कार्य पीछे होता है, अतः विभाव आदिका संयोगरूप कारण पहले होता है, उससे रस निष्पत्तिरूप कार्य पीछे होता है । इन दोनोंका सहभाव अर्थात् एक
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy