________________
तृतीयः परिच्छेदः
२६५
युद्धवीरो यथा श्रीरामचन्द्रः'भो लल्केश्वर ! दीयतां जनकजा, रामः स्वयं याचते,
__कोऽयं ते मतिविभ्रमः १ स्मर नयं, नाथापि किंचिद्गतम् । नैवं चेत् खरदूषत्रिशिरसां कण्ठासृजा पडिल:
पत्त्री नेष सहिष्यते मम धनुर्ध्यावन्धबन्धूकृतः॥' दयावीरो यथा जीमूतवाहन:
'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
युद्धवीररसमुदाहरति-भो लश्वर इति। बालरामायणस्थं पमिदम् । भगवतः श्रीरामस्य गवणं प्रत्युक्तिरियम् । भो लङ्केश्वरहे रावण !, जनकजा = जानकी, सीतेत्यर्थः । दीयतां = प्रतिपाद्यतां, मामिति शेषः । रामः राघवः, स्वयम्आत्मना एव, याचते = याचनां कुरुते, न तु दूतादिनेति भावः । तब = रावणस्य, अयं; कः = कीदृशः, मतिविभ्रमः = बुद्धिप्रान्तिः। नयं = नीति, स्मर = चिन्तय, परदारपरस्वाहरणमनिष्टफलमिति चिन्तयेति भावः । अद्याऽपि-एतत्कालपर्यन्तमपि, किंचित किमपि न गतं = न जातं, परं दुष्कर्मणः परिणाम आसन्न इति भावः । एवम = इत्थं, मवाचनस्वीकरणमिति भावः, न चेवन करोषि यदि, तहि खरदूषणत्रिशिरसां-खरदूषणत्रिमूर्धानां मद्धतानां रक्षसाँ, कण्ठाऽसृजा गलरक्तेन, पङ्किल:=पङ्कयुक्तः, कण्ठरुधिररक्त इति भावः । धनुावन्धबन्धूकृतः धनुषः (कार्मुकस्य) या ज्या (मौर्वी), तस्यां बन्धेन (सम्बन्धेन) बन्धकृत. ( बान्धवीकृतः ), एषः = समीपतरवर्ती, मम रामस्य, पत्त्रीबाणः, न सहिष्यते नो मर्षयिष्यति, त्वां हनिष्यतीति भावः । शार्दूलविक्रीडितं वृत्तम् ।
___ अत्रोत्साहः स्थायी भावः । रावण आलम्बनविभाव: । रावणकृतसीताहरण. मुद्दीपनविभाव: । रामस्य शौर्य पूर्णोक्तिरनुभावः । गर्वादयोः व्यभिचारिभावाः । एषां संयोगेन सामाजिकेषु युद्धवीररसस्यास्वादनम् ।
दयावीरसमुदाहरति--शिरामखैरिति। श्रीहर्षकृतनागानन्दनाटकस्थं पद्य. मिदम् । स्वमांसं किञ्चिद्भक्षयित्वा विरतं गरुडं प्रति जीमूतवाहनस्योक्तिरियम् । हे गस्त्मन् = हे गरुड !, शिरामुखैः = मम नाडीमुखैः, रक्तं = रुधिरं, स्यन्दत एव = स्रवति एक, अशाऽपि -- अधुनाऽपि, मम देहे = शरीरे, मांसं = पललम्, अस्ति %3
युद्धवीर जैसे श्रीरामचन्द्र हैं। बालरामायण में श्रीरामचन्द्र रावणको उत्तर देते हैं । "हे लङ्कापते ! जनककन्या (सीता) को दे दो राम स्वयम् याचना कर रहा है। यह क्या तुम्हारी बुद्धि-भ्रान्ति है ? नीतिका स्मरण करो, अभी तक कुछ नहीं हुआ है। हमारे कथन के अनुसार नहीं करोगे तो खर, दूषण और त्रिशिराके कण्ठके रक्तसे पङ्क युक्त बनुषकी प्रत्यञ्चामें चढ़ाया गया यह मेरा बाण सहन नहीं करेगा।
दयावीर जैसे जीमूतवाहन अपने मांसको कुछ खाकर निवृत्त होनेवाले गरुडको कहते हैं। हे गरुडजी ! मेरी नाडीके मुखोंसे रुधिर वह ही रहा है, अभी तक मेरे