________________
तृतीयः परिच्छेदः
-
यथा
गुरोगिरः पञ्चदिनान्यधीत्य, वेदान्तशास्त्राणि दिनत्रयं ।। अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः॥' अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः । अत्र च
यस्य हासः, स चेत् क्वापि साक्षान्नैव निबध्यते । तथाप्येष विभावादिसामर्यादुपलभ्यते ॥ २२० । अभेदेन विभावादिसाधारण्यात्प्रतीयते । सामाजिकैत्तता हास्यरसाऽयमनुभूयते ॥ २२१ ॥
हास्यरसमुदाहरति-गुरोरिति । अमी = एते, कुक्कुट मिश्रपादा:= कुक्कुट मिश्रचरणाः, गुरोः-प्रभाकरभट्टस्प, गिर:=मीमांसाशास्त्रविशेषरूपाः, पञ्च दिनानि = पञ्च दिवसान्, वेदान्तशास्त्राणि = उत्तरमीमा सादर्शनग्रन्थान्, दिनत्रयं = दिवसत्रितयम्, "उभयत्र" कालाऽऽवनोरत्यन्तसंयोगे । इति द्वितीया। अधीत्य = पठित्वा, तर्कवादांश्चन्यायदर्शनवादांश्च, समाघ्राय =सम्यक् घ्राणगोचरीकृत्य समागताः = सम्प्राप्ताः । अत्र कुक्कुटमिश्रादा आलम्बनम् । तेषां पञ्चत्रिदिनाऽध्ययनादय उद्दीपनानि । शरीरच्छ्वा. सननेत्रसङ्कोचादयोऽनुभावाः, हर्षाऽवहित्थादयो व्यभिचारिभावाश्च अनुक्ता अपि 'झटित्यन्यसमाक्षेपे तथा दोपो न विद्यते” इति वचनानुमारात् सामर्थ्यांदूह्याः, हासः स्थायि. भावः एवमन्यत्रःऽपि ।
अस्यति । अस्प = हास्यरसस्य, लटकमेलकप्रभृतिषु = लटकमेलकादिपु, प्रभृतिपदेन हास्याऽर्णवादीनां परिग्रहः । परिपोष: परिपोषणम् ।। २१९ ॥
हास्यरसे विशेषमाह-यस्येति । यस्य हासः = गत्सम्बन्धी, यदाळम्बन इति भाव. । स = आलम्बनविभावः, क्वाऽपि = कुत्रनित्स्थले, साक्षात् = वचनत , नैव निबध्यते चेत् नैव प्रतिपाद्यते यदि, तथाऽपि, एषः = आलम्बनविभावरूप:, विभावादिसामर्थ्यात = यथास्थितविभावाऽनुभावादिसामर्थ्यान्; उपलभ्यते-कल्प्यते, सामाजि: कैरिति शेषः । ततः = अनन्तरं, सामाजिकः - मध्यः, विभावादिसाधारात् :विभावादीनां साधारण्यात् = साधारणीकरणव्यापारात्, अभेदेन = स्वपरसाधारणत्वेन,
उ.-ये कुक्कुटमिश्रजी प्रभाकर मीमांसकक ग्रन्थोंको पाँच दिनो तक और वेदान्तशास्त्रोंको तीन दिनों तक पढ़कर और न्यायदर्शनोंके वाक्यों को सूघकर आ गये हैं । हास्य रसका परिपोष लटकमेलक आदि प्रहसनाम दधना चाहिए। जिसका हाम किसी अन्य साक्षात् निबद्ध नहीं किया गया है तो भी यह विभाग आदि सामर्थ्य से उपलब्ध होता है ।। २२० ।
१७ साल