SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १७२ साहित्यदर्पणे यथा'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा, याः प्राणान् वरमर्पयन्ति, न पुनः सम्पूर्ण दृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक स्तास्सैले क्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥' अथ किलकिश्चितम् स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । साङ्कय किलकिश्चितमभीष्टतमसङ्गमादिजादात् ॥ १०१॥ विव्वोकमुदाहरति-यासामिति । कञ्चित्कामिनं प्रति मित्रस्याशीर्वचनामिदम् । यासां = वामानां, सद्गुणाऽनुसरणे अपि = उत्तमगुणाऽनुरोधनसामर्थ्य, सत्यपि == विद्य. मानेऽणि, परा = अधिका, दोषानुवृत्तिः = दूषणाऽनुसरणम् । याः = वामाः; वरं प्राणान् = असून, अर्पयन्ति = समर्पयन्ति, पुनः = परं, प्रिये = कान्ते विषये, संपूर्णदृष्टि = प्रणयपूरिताऽवलोकनं, न अर्पयन्ति, गर्वात्कटाक्षमात्रं समर्पयन्तीति भावः । यांसा = वामानाम्, अत्यन्ताऽभिमते = अतिशयसम्मते, वसनभूषणादिरूप इति भावः, वस्तुनि अपि = पदार्थे अपि, निषेधात्मकः = प्रतिषेधस्वरूपः, विधि: == विधानं, प्रत्याख्यानरूपमिति भावः । त्रैलोक्यविलक्षणप्रकृतयः = त्रिभुवनाऽसाधारणस्वभावाः, ताः = पूर्वप्रतिपादिताः वामाः = ललनाः, ते = तव विषये, प्रसीदन्तु अनुगृह्णन्तु अत्राऽभीष्टे वस्तुन्यपि अनादराद्विन्त्रीको नामाऽलङ्कारः । शार्दूलविक्रीडितं वृत्तम् ।। १००। । किलकिञ्चितं लक्षयति - स्मितेति । अभीष्टतमसंगमादिजात् - प्रियतमसमागमादिजनितात्, हर्षात् = प्रमोदात, स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीना - स्मितं ( मन्दहास्यम् ) शुष्करुदितं (कृत्रिमरोदनम् ), हसितं ( हास्यम् ) त्रासः ( भीतिः) क्रोधः ( कोपः ) श्रमः ( परिश्रमः ), इत्येतेषां, सायं = सम्मिश्रणं, किलकिञ्चितं नामाऽलङ्कारः ।। १०१॥ उ.-जिन स्त्रियोंके उत्तम गुणोंका अनुसरण हानेपर भी ज्यादा की दोषका अनुवर्तन है । जो प्राणोंको भले ही अर्पण कर दें पर प्रियके प्रति पूरी दृष्टि नहीं देती हैं । अत्यन्त अभीष्ट वस्तुमें भी जिनकी निषेधरूप प्रवृत्ति है, त्रैलोक्यमें असाधारण स्वभावसे युक्त वैसी सुन्दरियाँ तुमपर प्रसन्न हों। किलकिञ्चिद-अत्यन्त प्रिय पुरुषके संगम आदिसे उत्पन्न हर्षसे मन्द हास्य; शुष्क रोदन, हास्य, भय क्रोध और परिश्रम आदिके संमिश्रणको "किलकिञ्चित" कहते हैं ॥ १०१॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy