SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १६८ साहित्यदपणे - - - - - यथा-'समाश्लिष्टाः समाश्लेषेश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः ॥' अथौदार्यम् -औदार्य विनयः सदा ।। ९७ ॥ यथा'न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गुरं, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि । कान्ता गर्भगृहे गवाक्षविवरब्यापारिताक्ष्या बहिः सख्या वक्त्रमभि प्रयच्छति परं पर्यश्रुणी लोचने ।' प्रवल्भतामुदाहरति-समाश्लिष्टा इति । योषितः ललना समाश्लिष्टाः= आलिङ्गिताः, कान्तेनेति शेषः । समाश्लेषः आलिङ्गनः, चुम्बिता: = कृतचुम्बनाः सत्यः, चुम्बनः = वक्त्रसंयोगः, दष्टाश्च : कान्तेन कृताधरदशनाः सत्यं दर्शनैःदन्तमतश्च कान्तं = प्रियं, दासीकुर्वन्ति :- दासवद्विदधति । अत्र कान्तकृताऽऽलिङ्ग. नादीनां प्रत्यालिङ्गनादिमिनिर्भयत्वप्रदर्शनात् प्रगल्भता नामाऽलङ्कारः ।। . औदार्य लक्षयति-प्रौदार्यमिति । सदा = सर्वस्मिन्काले, विनयः = नम्रता, औदार्यम् ॥ ९ ॥ औदार्यमुदाहरति-नत इति । प्रियायाश्चरितं मित्राय कथयतो नायकस्योक्तिरियम् । कान्ता = मम प्रिया, मे = मम, आगसि = अपराधे, स्फुटे अनि = व्यक्ते अपि; परुषां = कठोरां, गिरं = वाणी, न ब्रते = नो राषते । भ्रूयुगं = नयनलोमयुग्मं, भङ्गुरं = भङ्गशील, कुटिलमिति भावः । न नितनुते = न करोति । उत्तंसं = कर्णभूषण, श्रवणतः = कर्णात्, क्षिती = भूमो, न क्षिपति = न निरस्यति । परं =/ केवलं, गर्भगृहे = स्वकीयवासगृहे, बहिः=बहिः प्रदेशात, गवाक्षविवरव्यापारिताक्ष्याः= गवाक्षविवरेण ( वातायनच्छिद्रेण ) व्यापारिते (सञ्चारिते ) अक्षिणी ( नेत्रे ) यया, तस्थाः, सख्याः = वयस्यायाः, वक्त्रं = वदनम् अभि = लक्ष्यीकृत्य, पर्यश्रुणी = अश्रुः व्याप्ते, लोचने = नयने, प्रयच्छति = प्रददाति । शार्दूलविकीडित वृत्तम् । अत्र कान्तकृताऽपराधस्य स्फुटत्वेऽपि विनयस्य प्रदर्शनात, औदार्य मामाऽलङ्कारः ॥ ९७ ॥ उ.-स्त्रियां मालिङ्गित होनेपर आलिङ्गनोंसे, चुम्बित होकर चुम्बनोंसे और प्रियके अधरक्षत करनेसे स्वयं भी अधरक्षत करके अपने प्रियको दासके समान बनाती है । . मौवार्य-सर्वदा नम्रता दिखानेको "औदार्य" कहते हैं ॥ ९७ ॥ उ०-कोई नायक अपनी नायिकाका चरित्र मित्रसे कहता है । मेरे अपराधके प्रकाशित होनेपर भी मेरी प्रिया कठोर वचन नहीं बोलती है, भौहोको टेढ़ी नहीं करती है, न तो कर्णभूषणोंको कानोंसे उतारकर जमीनपर फेंकती है, किन्तु कोठरीमें बाहर झरोखेके छेदसे नेत्रों को देनेवाली सखीके मुंहके सम्मुख आंसुओंसे भरे हुए नेत्रों को लगाती है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy