________________
साहित्यदर्पणे
अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।
सुखं सजायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ।। ७ ।। ..'ये खलु रामवनवासादयो लोके दुःखकारणानि' इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते। तेभ्यश्च सुरते दन्तघातादिभ्य इव सुखमेव जायते। अतश्च 'लौकिकशोकहर्षादिकारणेभ्यो लौकिकशोकहर्षादयो जायन्ते' इति लोक एवं प्रतिनियमः।
परं काव्यसंश्रयात्=पूर्ववल्ल्यब्लोपे पञ्चमी । काव्यसंश्रयं प्राप्य, अलौकिकविभा. वत्वं = लोकोत्तररामादिविभावत्वं प्राप्तेभ्यः, तेभ्यः = पूर्वोक्तभ्यः, सर्वेभ्य: सकलेभ्यः, रामवनवासादिभ्य इति भावः । सुखम् = आनन्द एव, संजायते = समुत्पद्यते, इति = अस्थिन् विषये, का, क्षतिः = आपत्तिः ॥ ७ ॥
विवृणोति-ये खल्विति। लोके = जगति, ते एव = रामवनवासादयः, काव्यनाट्यसमपिताः = श्रव्यरूपकगुम्फिताः सन्तः, अलौकिकविभावनव्यापारवत्तया = अलौकिका ये विभावनादिव्यापाराः तद्वत्तया लौकिकविभावनव्यापारविलक्षणतया। अत्र 'विमावनपदमनुभावनसंनारणयोरप्युपलक्षकं बोध्यम् । विभावनादिस्वरूणणि वक्ष्यन्ते । कारणशब्दवाच्यता = लौकिकहेतुपदप्रतिपाद्यताम् अत्राऽपि कारणपदं कार्यसहकारिणोरप्युपलक्षकं बोध्यम् । विहाय = त्यक्त्वा, कारणकार्य सहकारिकारणपदवाच्यतां त्यक्त्वेति भावः, अलौकिकविभावशब्दवाच्यत्वं = लोकोत्तरविभावादिपदप्रतिपाद्यताम् । तेभ्यः = रामवनवासादिभ्यः, सुरते = रतिक्रीडायां, दन्तघातादिभ्य इव = दशनक्षता. दिभ्य इव, अत्रादिपदेन केशग्रहणादिह्यते । सुखमेव जायते । अनेन देशकालादिविशेषण
परन्तु काव्यके आश्रयसे अलौकिक विभावत्वको प्राप्त राम आदिके वनवास आदि समस्त क्रियाकलापोंसे सुख उत्पन्न हो जाता है, इस बातके स्वीकार करनेमें क्या नुकसान है ? ।। ७॥
विवरण करते हैं-लोकमें वनवास आदि जो कुछ दुःखके कारण कहे जाते हैं वे ही काव्य ( श्रव्य ) और नाट्य ( दृश्य ) में विन्यस्त होकर अलौकिक विभावन व्यापार युक्त होनेसे कारण शब्दसे व्यवहृत न होकर अलौकिक विभाव शब्दसे कहे जाते हैं।
सुरतमें जैसे दन्तघात नखक्षत आदिसे सुख होता है वैसे ही वनवास आदि विषय काव्यमें समर्पित होनेसे उनसे सुख ही होता है। इस कारणसे लौकिक शोक हर्ष आदि कारणोंसे लौकिक शोक हर्ष आदि उत्पन्न होते हैं यह लोकमें ही नियम है।