SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः क्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव । तदुक्तम् 'रसावस्थः परम्भावः स्थायितां प्रतिपद्यते' इति । अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते सवांद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्माखादसहोदरः ॥ २ ॥ लोकोत्तरचमत्कारप्राणः कैश्चित् प्रमाभिः । स्वाकारवदभिन्नत्वेनायमाखाद्यते रसः ।। ३ ॥ भावः, वीररसे तु व्यभिचारभाव एव वक्ष्यति चनमयं पश्चात् -'शृङ्गारवीरयोहासो वीरे क्रोधस्तथा मतः ।। ३-१७२ ॥ शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः इति । अत्र प्राचां संवादमाह-तदुक्तमिति । __रसाऽवस्थ इति । रस एव अवस्था ( स्थितिः) यस्य सः, एतादृशः भावः = रत्यादिः, स्थायितां = स्थायिभावं, प्रतिपद्यते = प्राप्नोति । प्रत्येति । अस्य रसस्य, स्वरूपकथनगर्भः = स्वरूपकथनं ( लक्षणप्रतिपादनम् ) गर्भ ( अभ्यन्तरे ) यस्य सः; तादृशः, आस्वादनप्रकारः = आस्वादनभेदः, रसस्य आस्वादनाऽनतिरिक्तत्वादयमुपचारप्रयोगः कथ्यते । सस्वोरोकादिति । सत्वोद्रेकात = सत्त्वस्य (गुणस्य), उद्रेकात् (आधिक्याव); अखण्डस्वप्रकाशानन्दचिन्मयः = अखण्डः . विभावादिसमूहालम्बनत्वात् एकः) स्वप्रकाशः ( स्वतः प्रकाशमानः ) आनन्दमयः ( सुखमयः) चिन्मयः ( ज्ञानस्वरूपः )। वेद्याऽन्तरस्पर्शशून्यः = ज्ञेयान्तरसंपर्करहितः । ब्रह्माऽऽस्वादसहोदरः = ब्रह्मसाक्षात्कारसदृशः । लोकोत्तरचरचमत्कारप्राणः=अलौकिकाऽऽश्चर्यजीवनरूपः । कश्चित, प्रमातृभिः प्रमापकः, स्वाकारवत् = आत्माऽऽकृतिवा, अभिन्नत्वेन = भेदरहितत्वेन, अ- रसः, आस्वाद्यते = अनुभूयते इति कारिकाऽर्थः । भाव है, परन्तु ये दोनों शृङ्गार और वीर आदि रसमें स्थायी नहीं है व्यभिचारी भाव हैं । जैसे कि महा है-रसाऽवस्थः । रसकी अस्थाको प्राप्त भाव ही स्थायीभाव होता है, अन्य नहीं । रसके स्वरूपका कथन और बास्वादनका प्रकार कहते हैं । सत्त्वोन्द्र कात् इति सत्व गुणके भाधिक्यसे अखण्ड, स्वतः प्रकाशवाग, आनन्दमय, चिन्मय ( ज्ञानस्वरूप ) दूसरे वेद्य पदार्थके संपर्कसे रहित, ब्रह्मसाक्षात्कारके सदृश ॥ २ ॥ अलौकिक 'चमत्कारस्वरूप प्राणवाला रस कुछ विद्वानोंसे अपने आकारके समान अभिन्नरूपसे आस्वाइन किया जाता है ॥ ३ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy