SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ द्वितीया परिच्छेदः ७ णिम्मलमरगअभाअणपरिट्ठिा ( दा) समुत्ति व्व ॥' . [ पश्य निश्चलनिस्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥] अत्र बलाकाया निःस्पन्दत्वेन विश्वस्तत्वम् , तेनास्य देशस्य विजनत्वम्, . अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुक प्रत्युच्यते । अत्रैव स्थाननिर्जनस्वरूपं व्यङ्गथार्थवैशिष्यं प्रयोजनम् । ___भिन्नकण्ठध्वनिर्धारः काकुरित्यभिधीयते' इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः। एतद्वैशिष्टय यथा-- "पश्य निश्चलनिःस्पन्दा, बिसिनींपत्त्रे राजते बलाका । निर्मलमरकतभाजनपरिस्थिता शङ्ख शुक्तिरिव ॥" हे निश्चल ! बिसिनीपत्त्रे निःस्पन्दा बलाका निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव राजत इत्यन्वयः । रमणाऽथं कृतसकेताया नायिकाया जनागमनशङ्कया निश्चेष्टं विटं प्रत्युक्तिरियम् । हे निश्चल हे निरुद्यम विट !, बिसिनीपत्त्रे= कमलिनीदले, निःस्पन्दा-निश्चलः, बलाका=बिसकण्ठिका, बकजायेत्यर्थः । निर्मलकरकतभाजनपरिस्थिता : स्वच्छनीलमणिपात्रस्थिता, शङ्खशुक्तिः इव = शङ्खघटितं शुक्त्याकारं पात्रम् इव, राजते = शोभते, उअ = पश्य । हालकविकृतायां गाथासप्तशत्यां पद्यमिदम् । अत्र "उअ" इति देशीभाषाशब्दः । ___ अत्र = अस्मिन् पद्य, बलाकाया: बकजायायाः, नि:स्पन्दत्वेन =निश्चलत्वेन, विश्वस्तत्व = विश्वासयुक्तत्वं, तेन अस्य देशस्य = स्थानस्य, विजनत्वं = विविक्तत्वम्, अतः सङ्केतस्थानमेतदिति कयाऽपि = नायिकया, सन्निहितं = निकटवर्तिनं, प्रच्छन्नकामुकं प्रति = गुप्तकामयितारं प्रति, उच्यते = सूच्यते व्यञ्जनयेतिभावः । अत एव= अस्मिन् उदाहरण एव, स्थाननिर्जनस्वरूपं = देशविजनरूपं, व्यङ्गयाऽर्थवैशिष्टयं = व्यञ्जनावृत्तिप्रतिपाद्यार्थविशिष्टत्व प्रयोजनम् = लक्षणाफलम् । ___ काकोलक्षणं प्रतिपादयति-भिन्नकण्ठध्वनिरिति। धीरैः = विद्भिः, सङ्केत करनेवाली नायिकाकी निश्चेष्ट विटके प्रति उक्ति है-हे निश्वल ! कमलिनीके पत्तेपर अत्यात निश्वष्ट होकर बैठी हुई बगुली निर्मल पन्नेके बतंतमें रहे हुए शङ्ख. पात्रके समान शोभित हो रही है। इस पद्यमें बगुलीके निश्चल होनेसे विश्वस्तत्व, उससे उस स्थानकी निर्जनता, इस कारणसे यह संकेतस्थल है यह बात कोई नायिका निकटस्थित प्रच्छन्न कामुकको व्यञ्जनासे सूचित करती है । इस उदाहरणमें ही स्थाननिर्जनतारूप व्यङ्गय अर्थकी विशेषता प्रयोजन है। जिसमें कण्ठस्वर भिन्न होता है उसे "काकु" कहते हैं ऐसे लक्षणसे युक्त
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy