SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः सुकुमारमतीनां राजपुत्रादीनां विनेयानां 'रामादिवत्प्रवर्तितव्यं न रावणादिवत' इत्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनरप्युक्तत्वात् । तथा चाग्नेयपुराणेऽप्युक्तम्-'वाग्वेदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्' इति । __ व्यक्तिविवेककारेणाऽप्युक्तं-'काव्यस्यात्मनि संज्ञिनि, रसादिरूपे न कस्यचिद्विमतिः' इति । ध्वनिकारेणाऽप्युक्तम्-'नहि कवेरितिवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः' इत्यादि। स्वादः (शृङ्गारादिरसास्वादनम् ) एव सुखपिण्डं ( हर्षसमूहः ), "मुखपिण्डम्" इति पाठान्तरे प्रधानकवल इत्यर्थः । तद्दानद्वारा = तद्वितरणोपायेन, वेदशास्त्रविमुखानां = श्रुतिशास्त्रपराङ्मुखाना, काठिन्याद्वेदशास्त्राऽध्ययनाऽसमर्थानामिति भावः । सुकुमारमतीनाम् = अतिकोमलबुद्धीना, राजपुत्रादीनां राजकुमारप्रभृतीनां, विनेयानां = शिक्षणीयानां, रामादिवत् राघवादिवत्, प्रवर्तितव्यं चेष्टनीयं, पित्राज्ञापरिपालनादा. वितिभावः । रावणादिवत्-दशाननवत्, न प्रवर्तितव्यं न चेष्टनीयं, परदारहरणादाविति भावः । इत्यादिकृत्याऽकृत्यप्रवृत्तिनिवृत्युपदेशः कृत्ये ( कर्तव्गे ) प्रवृत्तेः ( प्रवर्तनस्य ), अकृत्ये (अकर्तव्ये निषिद्धकार्य इति भाव:) निवृत्तेः (निवर्तनस्य) च, उपदेशः (शिक्षणम्)। इति, चिरन्तनरपि = प्राचीनैराचार्यः अपि, उक्तत्वात् = अभिहितत्वात् । तदुक्तं "स्वादुकाव्यरसोन्मित्रं वाक्याऽर्थमुपयुञ्जते। प्रथमाऽऽलीढमधवः पिबन्ति कटु भेषजम् ॥” इति । काव्यस्य रसस्वरूपत्व आप्तसम्मती: प्रदर्शयति-तथा चेति । "वाग्वदग्ध्यप्रधानेऽपि = उक्तवंचित्र्य प्रमुखेऽपि, अत्र = अस्मिन् काव्ये, रस एव = शृङ्गारादिरेव, जीवित = जीवनं, नो गुणाऽलङ्कारादिति परिसंख्या ( आग्नेयपुराणम् )। व्यक्तिविवेककारेण-आचार्यमहिमभट्ट न, अपि उक्तं-काव्यस्येति । रसाऽऽदिरूपे संज्ञिनि = रसादिनामधेये, काव्यस्य, आत्मनि आत्मस्वरूपे, कस्यचित् = कस्याऽपि, सहृदयस्याचार्यस्येति शेषः, विमतिः = विरुद्धा मतिः, न = नो वर्तत इति भावः । “सङ्गिनि" इति अपपाठः, व्यक्तिविवेके तादृशपाठाऽनुपलम्मात् । ध्वनिकारेणाऽपि = आनन्दवर्द्धनाचार्येणाऽपि, उक्तम-इतिवृत्तमात्रनिर्वाहेण केवलयथार्थचरित्रनिर्वहणेन, आत्मलाभः = कविसंज्ञाप्राप्तिः, न, इतिहासादेरेव = इतिहासपुगणादेरेव, तत्सिद्धेः = इतिवृत्तलामात् । आदि शास्त्रों में विमुख, शिक्षाके योग्य, राजपुत्र आदि सुकुमार बुद्धिवालोंको राम आदिके समान आचरण करना चाहिए, रावण आदिके समान नहीं, इत्यादि कर्तव्यमें प्रवृत्ति और अकर्तव्यमें निवृत्तिका उपदेश देना है ऐसा प्राचीन आचार्योने भी कहा है । उसी तरह अग्निपुराणमें भी कहा है-"काव्यमें उक्तिचित्र्यकी प्रधानता होनेपर भी रस ही जीवन है"। "व्यक्तिविवेककार ( महिमभट्ट ) ने भी कहा है-रस आदि नामवाले काव्यके स्वरूपमें किसीको विवाद नहीं है। ध्वनिकार ( आनन्दवर्धनाचार्य ) ने भी कहा है-इतिवृत्त ( चरित्र ) मात्र लिखनेसे कविको कविपदकी प्राप्ति नहीं होती है, क्योंकि चरित्रमात्रकी सिद्धि तो इतिहास पुराण आदिसे ही हो जाती है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy