________________
50
मदरसायने
ननु अव्यवहितवाक्यान्तरेण उपमेयोपमान भावनिबन्ध इति विवक्षितमिति चेत्तर्हि --
रामचन्द्र इवाभाति लोकानन्दकराकृतिः ।।
चन्द्रो राम इवाशेषकलाकलितविग्रहः ॥ इत्युपमेयोपमा न स्यात् । 'तत्र व्यवधानसंभवात् । ननु स्वाऽननुकूल. वाक्यान्तरेणेति विवक्षितम् । पूर्वोक्तस्थले साधारणधर्मप्रतिपादकवाक्यस्य 'खानुकूलत्वात् नोक्तदोष इति चेचर्हि -
स्वशब्देनोपमेयोपमायाः विवक्षितवादात्माश्रयप्रसनः ।। किञ्च सर्वत्र 'चत्वारो दाशरथयश्चत्वार इव सागराः । चत्वारस्सागरा भान्ति चत्वार इव राघवा.' इत्यत्र अव्याप्तिः । तत्र द्वयोरुपमानोपमेययोः उपमेयोपमानभावासत्वात् । ननूपमानोपमेयत्वावच्छिन्नयोः उपमेयोपमानभावनिबन्धे उपमेयोप. मेति लक्षणं विवक्षितमिति चेत् मैवं उपमानोपमेयत्वयोः विशेषणत्वविवक्षा. यामसंभवप्रसङ्गात् । तद्विशिष्टावस्थायामेव उपमेयोपमानभावस्य विरुद्धत्वात् । उपमानोपमेयत्वयोरुपलक्षणत्वविवक्षाययां 'रामश्चन्द्र इवे'त्युपमायामतिव्याप्तिः ।
''मावनिबन्धः इत्यारभ्य 'विग्रहः' इति पर्यन्तो भागः 'न' प्रती
..
...
..
तत्र व्यवधानसंभवात्-इत्यनन्तरं तत्र स्वाननुकूलवाक्याव्यवहित. . वाक्यान्तरेणेति विवक्षितम् ' इति 'त' प्रतौ वर्तते ।
स्वानुकूलत्वात्'-इत्यारभ्य नैयत्यपदेन तन्निवृत्तेः इत्यतः पूर्व, मध्ये विद्यमानो भागः 'त' प्रतौ नास्ति । तत्स्थले अनन्वयालद्वारस्य 'वेत्युपमायाम् अव्याप्तिः । विष्णुशब्देन इत्यारभ्य ' अन्यथा लक्षणापरिसंख्यासंशयोस्नानुगुण्या' इत्यन्तो भागः दृश्यते । स तु प्रामादिकः ।
।