SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 246 iii) अर्थालंकारसंसृष्टिर्यथा - - " ii) तत्र शब्दालंकारसंसृष्टिर्यथा नटकुले निकटे नटनोद्यते सकटकं घटयन्मुकुटं स्फुटम् । अधित दाशरथिर्धरणीधुरं सफणदं धणदंधणदुन्दुभि || ' अत्र वृत्यनुप्रासयमकयोः संसृष्टिः । 1 2 अत्र तद्गुणार्थान्तरन्यासयोः संसृष्टिः । उभयसंसृष्टयोरपीदमेवोदाहरणम् । वृत्त्यनुप्रासस्य च अत्र संभवात् । * अलङ्कारराघवे ' गच्छति रागमनुष्या नासामणिरधरबिम्बरागेण । 9 निवसति रागिणि निकटे प्रभवति रागी हि वीतरागोऽपि ॥ सकटकं यथा तथा समीपे नटवर्गे नाट्यप्रवृत्ते सति, दुन्दुभौ फणदं धणदं, धणदं इति शब्दायमाने सति, मुकुटं धृत्वा रामः भूभारं धारयामास । अर्थात् राज्यं स्वीकृतवानित्यर्थः । अत्र 'अधित' इति क्रियापदम् । धृतवान् इत्यर्थः । डुधाञ् धारणपोषणयोः इति धातोः लुङ् लकारे प्रथमपुरुषैकवचनान्तं रूपम् । द्रुतविलंबितवृत्तमिदम् । 'द्रुतविलंबितमाह नभौ भराविति' वृत्तरत्नाकरे तल्लक्षणम् । आर्यावृत्तमिदम् । .
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy