________________
फलसमुच्चयालङ्कारप्रकरणम्
239
'मुक्ता जटास्त्वयि महामुकुटं दधाने
साकेतहृदयोत्सवभूमलाभः । मातुर्ममापि भुवनेष्वयशोविनाशः
_ सिद्धयन्ति राम ! भुवि योग्यनृपालवत्वम् ।। अत्र वनवासं विना रामस्य मुकुटधारणरूपकारणेन युगपदमेकफलसिद्धिः ।
॥ अथ समाध्यलंकारः॥ पूर्ववदस्य पेटिकासङ्गतिः । अस्यापि कार्यकारणभावगर्भत्वेन तत्करा नन्तर्यजात्यवान्तरसङ्गतिः। तत्र – 'कारणान्तरयोगात् कार्यस्य सुकरत्वं समाधिः'
इत्यलङ्कारसर्वस्वकारः । 'समाधिः सुकरं कार्य कारणान्तरयोगतः' .
इति काव्यप्रकाशकारः ।
पट्टाभिषेकवेलायां रामे मुकुटं दधाने सति तं प्रति कैकेय्याः उक्तिरियम् - अयि राम ! त्वयि महामुकुटं दधाने सति जटाः - वनवासायां बद्धाः जटाः मुक्ताः । एवमेव जटाः मुक्ति प्राप्तवत्यः । साकेतजनहृदये पट्टाभिषेकोत्सवेनानेन अधिकानन्दः सञ्जातः । मातुः ममापि लोके स्थितस्य अपयशसः नाशः इदानीमभूत् । भुवि योग्यनृपालवत्त्वमपि सम्पन्नम् इति । अत्र जटानां मुक्तिरेव फलम् । साकेतजनानामधिकानन्दप्राप्तिरेव फलम् । कैकेय्याः अपयशोविनाश एव फलम् । भुवः योन्यनृपाललाभ एव फलमिति फलचतुष्कं समुच्चीयतेऽत्र इति फलसमुच्चयालङ्कारः । वसन्ततिलकावृत्तम् ।