________________
उत्तरालङ्कारप्रकरणम्
233
लक्षणानुगतिर्दृष्टव्या। अलङ्कारान्तरेऽतिव्याप्तिनिरासायैतद्विशेषणविशेष्योभयाभावानधिकरणेत्युक्तम् । उत्तरालकारद्वैविध्यं स्पष्टमेव ।।
i) तत्र निबध्यमानोत्तरात् प्रश्नोनयनं यथा -
'सिंहासनमधिष्ठाय रामचन्द्रे किरीटिनि । ।
पालयत्यखिलं लोकं भरतो मुमुदे सखे ॥'
अत्र किरीटिनि रामे लोकं पालयति भरतो मुमुदे इत्युत्तरेण भरतः कथं मुदितः इति प्रश्नमुन्नीयते । ii) प्रश्नप्रतिपादनपूर्वकमुत्तरं यथा -
'का विद्या सुकवित्वं किं वा वृत्तं परंपरागतम् । को देवो रघुनाथो का वा भूषा तदीय्यकोटीरम् ||
__॥ अथ विकल्पालङ्कारः ।। अस्यापि पूर्ववत्पेटिकासङ्गतिः। 'वाक्यन्यायमूलोक्तालङ्कारापेक्षया विकल्पालङ्कारस्य जघन्यत्वात् अत्र निरूपणमुचितमित्यवान्तरसङ्गतिः ।
तत्र - 'तुल्यषलविरोधो विकल्पः' इत्यलङ्कारसर्वस्वकारः ।
1 वाक्यन्याय' इत्यतः 'जघन्यत्वात्' इत्यन्तभागे 'त' प्रतौ-वाक्यन्यायमूलोक्तालङ्कारापेक्षया विकल्पालङ्कारस्याष्टदोषदुष्टत्वशङ्काकलङ्कितत्वेन जघन्यत्वात् ' इति दृश्यते । 'न' प्रतौ तु - ' वाक्यन्यायमूलोक्तालंकारापेक्षया इतरालंकारपूर्वदोषदुष्टत्वशङ्काकलङ्कितत्त्वेन जघन्यत्वात्' इति वर्तते ।