SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 228 उदाहरणम् - 'रविस्तिरोदधे रत्नरामकोटीरतेजसा । तत्र पावकशीतांशुतारादीनां तु कथा || ' - ॥ अथ परिसंख्यालंकारः || अस्यापि पूर्ववत् पेटिकासङ्गतिः । अर्थान्तरा पतनगर्भार्थापत्तिनिरूपणानन्तरम् अर्थान्तरवर्जनप्रधानपरिसंख्यायाः वृद्धिः स्थत्वात् अस्याः प्रासङ्गि क्यवान्तरसङ्गतिः । ननु 6 किञ्चित्पृष्टमपृष्टं वा कथितं यत्प्रकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता || " इति काव्यप्रकाशकारः । ' एकास्याने प्राप्तावेकत्र नियमनं परिसंख्या ' अलङ्कार इत्यलङ्कारसर्वस्वकारः । ८ ' एकस्यानेकत्र प्राप्तावेकत्र यो भवेन्नियमः । ख्याता सा परिसंख्या संख्यावद्भिश्चतुर्भेदा || " इति विद्याधरः । 'सत्यां प्राप्तावनेकस्मिन् एकदेशस्य वस्तुनः । स्यादेकस्मिन् नियमनं परिसंख्या चतुर्विधा || ' इति साहित्यचिन्तामणिकारः । ' एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि । एकत्र नियमः सा हि परिसंख्या निगद्यते || ' तत्र द्वितीयादिलक्षणानि न युक्तानि । इति विद्यानाथः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy