________________
अनुमानालङ्कारप्रकरणम्
तत्र रामदत्तेन हनूमत्कण्ठहारेण तिरस्कृतः शिवकण्ठहारः, तस्य प्रतीकारकरणे असमर्थो हनूमज्जनकं वायु भक्षयतीति तदीयतिरस्कारः।
॥ अथ तर्कन्यायपेटिका ॥ लोकन्यायपेटेिकानन्तरं तर्कन्यायानां सर्वशास्त्रोपकारकत्वात् तर्कन्यायपेटिकेति पेटिकयोः सङ्गतिः ।
|| अथ अनुमानालङ्कारः॥ तत्रापि 'सोऽयं परमो न्यायः' इति तार्किकाभियुक्तप्रसिद्धेरनुमाननिरूपणमुचितमित्यवान्तरसङ्गतिः । ननु -
'साध्यसाधननिर्देशोऽनुमानम्' इत्यलङ्कारसर्वस्वकारः । 'अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः'...
इति काव्यप्रकाशकारः। 'अनुमतमनुमानमिदं यत्र स्तः साध्यसाधने कथिते'
इत्येकावळीकारः । 'साध्यसाधननिर्देशो योऽनुमानं तदुच्यत' ।
इति साहित्यचिन्तामणिकारः । 'साध्यसाधननिर्देशस्त्वनुमानमुदीर्यत' इति विद्यानाथः । तानि लक्षणानि न युक्तानि । ।
.. 'आख्यातकी तौ तगुरू ओजे जतावनोजे जगुरू- गुरुश्चत् । ... जतौ जगौ गो विषमे समे चेत् तौ ज्गौ ग एषा विपरीतपूर्वा ॥'
इति ।