SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 206 अलङ्कारराघवे 'समन्यूनाधिकैरथैः कस्यचिद्वस्तुनो भवेत् । । यथा विनिमयः सोऽयं परिवृत्तिस्विधा मता ||' . । इति साहित्यचिन्तामणिकारः । 'समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनः परिवृत्तिरसौ मता ||' इति विद्यानाथः । तत्र सर्वत्र तक्तव्यम् । समेन समविनिमयो वा परिवृत्तिः । न्यूनेनाधिकविनिमयो वा, अधिकेन न्यूनविनिमयो वा। उक्तसर्वविनिमयानां समुच्चयो वा। तेषामन्यतरो वा । नाद्यद्वितीयतृतीयाः। परस्पराव्याप्तेः । न चतुर्थः । असम्भवात् । नापि पञ्चमः । अन्यतरशब्दार्थानिर्वचनात् । तस्मात्परिवृत्त्यलकारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - 'यस्य कस्यचिद्वस्तुनो येन केनापि विनिमयः परिवृत्तिः' इति सामान्यलक्षणम् । यद्वा - "समत्वाधिकरणत्वे सति न्यूनत्वाधिकत्वानधिकरणस्य समत्वे सति न्यनत्वानधिकरणेन वस्तुना विनिमयः परिवृत्तिः' .......इति लक्षणनिष्कर्षः । अत्र समत्वाधिकरणत्वे सति न्यूनत्वाधिकत्वानधिकरणस्य समादिष्वेकस्य समत्वे सति न्यूनत्वाधिकत्वानधिकरणेन समादिष्वेकेन समेन विनिमयः परिवृत्तिरिति फलितोऽर्थः। समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिरिति त्रिविधेति यावत् । i) अत्र समेन समपरिवृत्तिर्यथा - 'कौतुकाविष्टहृदयौ मैथिलीरघुनन्दनौ । परिवृत्ति वितन्वाते मिथः स्वस्वकिरीटयोः ॥'
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy