________________
परिकरालास्त्रकरण
185
ननुः - 'विशेषणः यत्साकूतैः उक्तिः परिकरस्तु स'
इति काव्यप्रकाशकारः । ' 'विशेषणसामिप्रायत्वं परिकरः' इत्यकारसर्वस्वकारः । 'विलसति विशेषणाना प्रतीयमानार्थगमता यत्र । सहृदयहृदयाहादी परिकरनामा स निर्दिष्टः ।।
इति विद्याधरः। 'विशेषणानां सहकृतभाषा परिकरः सम्मत'
इति साहित्यचिन्तामणिकारः । 'यत्राभिप्रायगर्भा स्याद्विशेषणपरंपरा । तत्राभिप्रायविदुषामसौ परिकरी मतः ॥"
___इति विद्यानाथः । तत्र सर्वत्र -
__'समुल्लसच्चन्दनचर्चनाङ्किता ............. . सपीतमासा धृतरम्यभूषणः ।
सुवस्तुभोक्ता मृदुतल्पमाश्रितः।
कथं नु रामो विपिनेषु तिष्ठति ॥ इति साभिप्रायोपलक्षणपरिकरे अव्याप्तिः प्रसज्यते । विशेषणोपलक्षणयोः भेदेन विशेषणानां साभिप्रायत्वाभावात् , प्रतीयमानार्थगर्वितत्वाभावाच्च । ननु विशेषणपदं व्यावर्तकमात्रपरमिति नोक्ताव्याप्तिरिति चेत् तर्हि श्लेषेऽति.
सकृद्धाव: -न वंशवृत्तम् । जितौ तु वंशस्थमुदीरितं जरौ,' इति तल्लक्षणं वृत्तरत्नाकरे ।