________________
174
अलङ्कारराघवे
ii) द्वितीयो यथा - __'प्रवर्तते जगदृष्टिः रामपीतांवरेक्षणे ।
बालातपं विना लोके चक्रवाकी न मोदते ॥ - अत्र बालातपेन यथा चक्रवाकी मोदते तथा रामपीतांबरावलोकने जनदृष्टिः प्रवर्तते इत्यौपम्यं गम्यते ।
॥ अथ निदर्शनालङ्कारः॥ अस्यापि गम्यमानौपम्यत्वेन पेटिकायास्सङ्गतिः । अनाक्षिप्तप्रतिबिंबकरणमूलदृष्टान्तानन्तरम् आक्षिप्तप्रतिबिंबकरणमूलनिदर्शनानिरूपणम् उचितमित्यवान्तरसङ्गतिः। ननु -
• निदर्शना अभवन्वस्तुसंबन्धः उपमा परिकल्पितः । खखहेत्वन्वयस्योक्तिः क्रिययैव च सा परा ॥' .
इति काव्यप्रकाशकारः । 'संभवताऽसंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना' . इत्यलङ्कारसर्वस्वकारः । 'प्रतिबिम्बनस्य करणं संभवता यत्र वस्तुयोगेन । गम्यमानमसंभवता वा निदर्शना सा द्विधाऽमिमता ॥'
इति विद्याधरः । 'संभवतोऽसंभवतः संबन्धाद्यत्र वस्तुनोरुभयोः । बिम्बप्रतिविम्बकृतिर्गम्यत्वे वा निदर्शना प्रोक्ता॥'
इति साहित्यचिन्तामणिकारः । 'असंभवद्धर्मयोगादुपमानोपमेययोः। प्रतिबिम्बक्रिया गम्या यत्र सा स्थानिदर्शना ।'
इति विद्यानाथः।