________________
साहित्यशास्त्रग्रन्थः सुरचितः इत्यपि ज्ञायते । ' शास्त्रचूडामणिः ' इति तर्कग्रन्थः, ' विवणोज्जीविनी ' इति शास्त्रचूडामणिग्रन्थस्य व्याख्यानात्मकः ग्रन्थश्च एतेन कृतः इति अस्य वचनेनैव परिज्ञायते । ' शास्त्रचूडामणिः 'गङ्गेशोपाध्यायेन विरचितस्य ' तत्त्वचिन्तामणि ' नामक ग्रन्थस्य खण्डनात्मकः ग्रन्थः । तदुक्तं ग्रन्थकारेणैव अलङ्कारराघवे तत्र तत्र
i) काव्यप्रकरणे अमिषा लक्षण कथन सन्दर्भे ' तस्मात् प्राथमिकस्य व्युत्पत्त्यनुरोधात् कार्यान्विते स्वार्थ अभिघेति सिद्धम् । प्रपञ्चस्तु अमत्कृते — तत्त्वचिन्तामणिखण्डने ' शास्त्रचूडामणौ द्रष्टव्यः इति ।
-
ii) काव्यप्रकरणे लक्षण लक्षणकथनसमये
शब्दात् व्यापारविशेषं विना संबन्धो लक्षणेत्यपि परमार्थ इत्यपि 'तत्त्वचिन्तामणिकारः' इति चेन्मैवम् । मुख्य तात्पर्यस्यैव वृत्तित्योपपत्तौ शक्तेरप्युच्छेदापत्तिरिति दूषणविस्तरः शास्त्रचूडामणौ द्रष्टव्यः' इति ।
....
1004
....
iii) मङ्गलाचरणं युक्तमिति समर्थनसमये उपोद्घातप्रकरणे - ' प्रपञ्चस्त्वस्मत्कृतशास्त्रचूडामणिविवर णोज्जीविन्ययोः द्रष्टव्यः ' इति ।
iv) उपोद्घातप्रकरणे अध्ययनविधिरेव अलङ्कारशास्त्रकर्तव्यताबोधकं मूलप्रमाणमवगन्तव्यमिति कथनसमये – 'विवरणोज्जीविन्यां तृतीयवर्णके अस्माभिः बहुविधा निराकृतत्वात् ' इत्युक्तम् । तत्रैव पुरतः पुनः - * विवरणोज्जीविन्यां प्रत्यपादीति द्रष्टव्यम्' इत्युक्तम् ।
-----
(v) अर्थालङ्कारप्रकरणे तद्गुणालङ्कारे चित्रवर्णं न रूपान्तरमिति कथनवेलायामेवमुक्तम् –' वस्तुतस्तु चित्रं न रूपान्तरमिति विवरणोज्जीविन्यामुक्तं द्रष्टव्यम्' इति ।
vi) अर्थालङ्कारप्रकरणे असङ्गत्यलंकारे – ' तत्रापि निःशस्त्रवत्वरूपफुलं कर्तृगतमेवेति न क्रियाफलयोः मिन्नदेशत्वमित्यस्मत्तत्व चिन्तामणिखण्डने शास्त्रचूडामणौ प्रतिपादितत्वात् ' इत्युक्तम् ।