SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रतीपालंकारप्रकरणम् 163 उपमानस्याक्षेपरूपप्रतीपे अव्याप्तेः । न तृतीयः असम्भवापत्तेः । न चतुर्थः । अन्यतरशब्दार्थस्यानिर्वचनात् । तस्मात् प्रतीपालंकारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते ― ' उपमेयस्य केनचिदतिशयेन उपमानप्रातिकूल्याचरणं प्रतीपम्' इति लक्षण निष्कर्षः । उपमानप्रातिकूल्याचरणं द्वेषा । कैमर्थक्येन निषेधेन वा, उपमेयत्वकल्पनया वा इति । 1 i ) तत्राद्यं यथा रामपाणौ ददानेऽर्थान् दिव्याभरणभूषिते । किमर्थ स्पन्दते स्वर्गे विटपः कल्पशाखिनः ॥ 1 ii) द्वितीयं यथा - निबद्धदिव्यमाणिक्यपाळिना राममौळिना । तारतम्य मजा नानैश्चण्डधामोपनीयते' || दिव्यालंकारयुते रामकरे अभिलषितार्थान् ददाने सति कल्पवृक्षस्य विटपः शाखा स्वर्गे किमर्थं स्पन्दते कम्पते । तद्व्यर्थमेव । अत्र रामपाणिः उपमेयम् । कल्पवृक्षविटपः उपमानम् । इष्टार्थप्रधानं साधारणधर्मः । उपमेयापेक्षया उपमानस्य कैमर्थक्यप्रतिपादनात् प्रतीपालंकारः । 2 * निबद्ध दिव्य माणिक्य केतुना राममौळिना तारतम्यमजानद्भिः पामरैर्जनैः चण्डधामा सूर्यः उपमीपते । उपमेयतया कल्प्यते । वस्तुतस्तु राममौळिः अतिशयेन अर्थात् सूर्यादपि अधिकतया राजते इत्यर्थः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy