________________
असंगत्यलंकारप्रकरणम्
157
तस्य उदाहरणम् - 'किरीटमुख्याभरणानि बिभ्रति
त्वयि प्रभो राम सभात्यलंकृता । सितातपत्रे भवदन्तिकोद्यते
त्रिलोकतापश्शममेति 'तत्क्षणे ॥' अत्र रामस्य किरीटादिभूषणधारणं सभायामलंकृतत्वम् । रामान्तिके धवलातपत्रोद्यमनं सकललोकानां तापश्शान्तिरिति कार्यकारणयोः भिन्नदेशत्वम् । यथा वा --
'कर्णयोः समणिमण्डलप्रमे धारिते मकरकुण्डलद्वये । चण्डभानुकुलमण्डनेन तद्गण्डयोरजनि मण्डनोदयः ॥ वंशस्थवृत्तमिदम् । ‘जतौ तु वंशस्थमुदीरितं जरौ' इति तल्लक्षणं वृत्तरत्नाकरें। 'एतदनन्तरं 'त' प्रतौ श्लेषालंकारस्य उदाहरणं ततः परिकरालंकार. भागश्च दृश्यते । परिकरालंकारेंऽपि अन्त्ये लक्षणनिष्कर्षः, ततः 'समासोक्त्यादाववर्ण्यमानार्थमात्रोपपत्तेः वरणं तदीयगण्डयोरलंकरणमिति कार्यकारणयोः भिन्नदेशत्वम् ' इत्यपि दृश्यते । अत्र अयं भागः पूर्वापरासंबद्धः । लिपिकारदोष इति प्रतिभाति । 'वरणं' इति तु धारणम् इति भवेत् । ततः 'तदीय इत्यारभ्य 'भिन्नदेशत्वम्' इति पर्यन्तभागः असंगत्युदाहरणस्य 'कर्णयोस्समणि' इति पद्यस्य विवरणभागः । परिकरभागः श्लेषानन्तरं भवेदिति निश्चित्य संशोध्य, श्लेषानन्तरं प्रदत्तः । श्लेषोदाहरणभागोऽपि तत्स्थले एव संकलितः । अयं च दोषः लिपिकारदोषो वा, प्रामादिको वा, यद्वा भवतु स दोषोऽत्र परिहरणीयः इति संभाव्य संशोध्य सम्यक् संकलितः । रथोद्धतावृत्तम् ।