SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ भधिकालङ्कारलक्षणम् 151 अत्र 'ब्रह्माण्डानां रामाधेयत्वेन निर्देशनात् आधारस्य रामस्य महत्वम् । ii) द्वितीयो यथा - ब्रह्माण्डेऽलमपर्याप्ते राम ते मुकुटप्रभा। त्रिविक्रमपदाघातरन्ध्रण बहिरुद्ययौ ॥ अत्राधारस्य ब्रह्माण्डस्खाल्पत्वम् । - ॥ अथ विभावनालङ्कारः। अथ आश्रयाश्रविणोविरोधमूलाधिकालंकारनिरूपणानन्तरं तद्विशेषयोः कार्यकारणयोः विरोधमूलालंकारप्रस्तावः । तत्रापि कार्योपजीव्यकारणाभावनिबन्धनविरोधस्य 'प्रबलत्वात् तन्मूलविभावनालंकारोऽपि निरूप्यते। ननु - क्रियाया प्रतिषेधेऽपि फलव्यक्तिर्विभावना' इति काव्यप्रकाशकारः। . 'कारणाऽभावेऽपि 'कार्यस्योत्पत्तिः विभावना' .. . इत्यलंकारसर्वस्वकारः ।। 'असति प्रसिद्धहेतौ कार्योत्पत्तिर्विभावना' इति विद्याधरः ।। 'प्रसिद्धकारणाभावे कार्योत्पत्तिर्विभावना' इति साहित्यचिन्तामणिकारः ।, 1 ब्रह्माण्डानामाधेयत्वेन-आ * आश्रयिणोविरोधालंकारनिरूपणानन्तरं-आ... 'बलत्वात्-आ 'कार्योत्पत्तिः - आ - -
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy