________________
146
मलकारराघ
'क्वचिद्यदतिवैधात् न श्लेषो घटनामियात् । .. कर्तुः क्रियाफलावाप्तिः नैवानर्थश्च यद्भवेत् || गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्ध यत्स एष विषमो मतः ||'
.. इति काव्यप्रकाशकारः । 'यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् । तथा कश्चिदर्थ साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्राप्तिरपीति तद्वितीयं विषमम् । अत्यन्ताननुरूपसङ्घटनयोविरूपयोश्च सङ्घटनं तत् तृतीयं 'विषमम् ।'
इत्यलकारसर्वस्वकारः । 'विषमं विरूपघटना विसदृशकार्यादभीष्टयोजननम् ।
इत्येकावळीकारः । 'विरूपकार्यनिष्पत्तिघटना च विरुद्धयोः । इष्टासिद्धावनिष्टार्थप्राप्तिध विषमं तथा ||'
इति साहित्यचिन्तामणिकारः । 'विरुद्धकार्यस्योत्पत्तियंत्रानर्थस्य वा भवेत् । विरूपघटना चासौ विषमालंकृतिर्मता ॥'
इति विद्यानाथः । . तत्र सर्वत्र वक्तव्यं किमेकं लक्षण, लक्षणत्रयं वा । नाद्यः । असंभव. प्रसंगात् । नेतरः । परस्परमव्याप्तः । नापि तृतीयान्यतरत्वं लक्षणमिति वाच्यम् । अन्यतरशब्दार्थस्य प्रागुक्त नयेन दुर्निर्वचत्वात् । तस्माद्विषमा.
1 ' विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसङ्घटना च विषमम्' इत्यलकारसर्वस्वे लक्षणम् । 'न्यायेन-त,न ।