________________
102
2
' उपमानस्य निर्देशो निगीर्णे प्रकृते धिया । प्रकृतस्य यदन्यत्वं यत्प्रौढोक्त्या च कल्पनम् ॥ कार्यकारणयोर्यश्च व्युत्क्रमस्तुल्यकालता । या स्यादतिशयोक्तिस्स्यात् प्रोक्तैवं पश्चधा बुधैः || '
अलङ्कारराघवे
इति साहित्यचिन्तामणिकारः ।
4
''विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिस्स्यात् कविप्रौढौक्तिसम्मता || '
तत्र न तावत् काव्यप्रकाशकारलक्षणं युक्तम् । एकलक्षणत्वे असंभवापत्तेः । भिन्नलक्षणाङ्गीकारे परस्परमव्याप्तेः । अतो नेदं सामान्यलक्षणं युक्तम् । एतेन विद्याधरसाहित्यचिन्तामणिकारलक्षणे अपि निरस्ते । उक्तविकल्पतद्दूषणसाम्यात् । ननु तेषां विशेषलक्षणमेवाभिप्रेतम् इति न सामान्यलक्षणं,येनोक्तदोषः स्यादिति चेन्न । तैः पृथक्सामान्य लक्षणस्या कथितस्वात् । तदनुक्त्वा प्रथमत एव विशेषलक्षणकथने अप्राप्तकालत्वप्रसङ्गात् । यदप्यलङ्कार सर्वस्वकारलक्षणं तदपि न युक्तम् । कार्यकारणविपर्ययरूपातिशयोक्तावव्याप्तेः । तत्र अध्यवसायस्यैवाभावेनाध्यवसितप्राधान्यस्य वक्तुमशक्यत्वात् । न च न सातिशयोक्तिरेवेति वाच्यम् । स्वयमनु गतलक्षण
1
1
' चित्रमीमांसायामपि अयमेव श्लोकः अतिशयोक्त्यलङ्कारलक्षणत्वेन
पठितः —'सम्मता' इति स्थले 'जीविता' इति परिदृश्यते ।
काव्यप्रका शिकाकारलक्षणं—त, न
8
इति सामान्यलक्षणमिति नोक्तदोषः स्यादिति चेन्न
लक्षणस्याधीतत्वात् - आ
इति विद्यानाथः ।
--
म